________________
॥ केवलिभुक्तिप्रकरणम्॥
अस्ति च केवलिभुक्तिः समग्रहेतुर्यथा पुरा भुक्तः। पर्याप्ति-वेद्य-तैजस-दीर्घायुष्कोदयो हेतुः ॥ १ ॥ नष्टानि न कर्माणि क्षुधो निमित्तं विरोधिनी न गुणाः । ज्ञानादयो जिने किं सा संसारस्थितिर्नास्ति ॥ २ ॥ तम इव भासो वृद्धौ ज्ञानादीनां न तारतम्येन । क्षुध हीयतेऽत्र न च तद् ज्ञानादीनां विरोधगतिः ॥ ३ ॥
विकलकारणभावे तदन्यभावे भवेदभावेन । इदमस्य विरोधीति ज्ञाने न तदस्ति केवैलिनि ॥ ४ ॥ क्षुद् दुःखमनन्तसुखं विरोधे तस्येति चेत् कुतस्त्यं तत् । ज्ञानादिवन्न तज्जं विरोधि न परं ततो दृष्टम् ॥ ५॥ आहारविषयकाङ्क्षारूपा धुद् भवति भगवति विमोहे । कथमन्यरूपताऽस्या न लक्ष्य ते येन जायेत ॥ ६॥ न क्षुद् विमोहपाको यत् प्रतिसंख्यानभावननिवर्त्या । न भवति विमोहपाकः सर्वोऽपि हि तेन विनिवर्त्यः॥७॥ शीतोष्णवांततुल्या क्षुत् तत् तत्पतिविधानकाङ्क्षा तु । मूढस्य भवति मोहात् तथा भृशं बाध्यमानस्य ॥ ८॥ तैससमूहकृतस्य द्रव्यस्याऽभ्यवहृतस्य पर्याप्त्या। अनुत्तरपरिणामे क्षुत् क्रमेण भगवति च तत् सर्वम् ॥ ९ ॥ ज्ञानावरणीयादेर्शानावरणादि कर्मणः कार्यम् । क्षुत् तद्विलक्षणाऽस्यां न तस्य सहकारिभावोऽपि ॥ १० ॥
प्रतिगतपाठा:--१ विरोधेनो । २ केचलिनि । ३ वाच । ४ वाध्यमानस्थ्य । ५ तैजसमूह ।
Aho! Shrutgyanam