________________
स्त्रीमुक्तिप्रकरणं अष्टशतमेकसमये पुरुषाणामादिरागमः ( माहुरागमे ) सिद्धिः ( सिद्धम् )। स्त्रीणां न मनुष्ययोगे गौणार्थो मुख्यहानिर्वा ॥३५ ॥ शब्दनिवेशनमर्थः प्रत्यासत्त्या क्वचित् कयाचिदतः। तदयोगे योगे सात शब्दस्याऽन्यः कथं कल्प्यः ॥ ३६ ॥ स्तन-जघनादिव्यङ्ग्ये 'स्त्री'शब्दोऽर्थे, न तं विहायैषः । दृष्टः क्वचिदन्यत्र त्वग्निर्माणवकवेद गौणः ॥ ३७॥ 'आ षष्ठया स्त्री' त्यादौ स्तनादिभिस्त्री स्त्रिया इति च वेदः । स्त्रीवेद स्व्यनुबन्धास्तुल्यानां ( बन्धः पल्यानां ) शतपृथक्त्वोक्तिः ॥ ३८ ॥ न च पुंदेहे स्त्रीवेदोदयभावे प्रमाणमगच । भावः सिद्धौ पुंवत् घुमां अपि (पुंसोऽपि ) न सिध्यतो वेदः ॥ ३९ ॥ क्षपकश्रेण्यारोहे वेदेनोच्येत भूतपूर्वेण । 'स्त्रीति नितराममुख्ये मुख्येऽर्थे युज्यते नेतराम् ॥४०॥ मनुषीषु मनुष्येषु च चतुर्दशगुणोक्तिराार्जि (र्यि )कासिद्धौ। भावस्तवोपरिक्षप्य.... ... ... ..नवस्थो नियत उपचारः ॥ ४१ ॥ पुंसि स्त्रियां, स्त्रियां पुसि-अतश्च तथा भवेद विवाहादिः । यतिषु न संवासादिः स्यादगतौ निष्प्रमाणेष्टिः ॥ ४२ ॥ अनडुह्याऽनड्वाही दृष्ट्वाऽनड्वाहमनडुहाऽऽरूढम् । स्त्रीपुंसेतरवेदो वेद्यो नाऽनियमतो वृत्तेः ॥ ४३ ॥ नाम-तदिन्द्रियलब्धेरिन्द्रियनिवृत्तिमिक प्रमाद्यङ्गम् । वेदोदयाद विरचयेद इत्यतदङ्गेन तद्वेदः ॥ ४४ ॥ या पुसि च प्रवृत्तिः, पुंसि स्त्रीवत्, स्त्रिया स्त्रियां च स्यात् । सा स्वकवेदात् तिर्यगंवदलामे मत्तकामिन्याः ॥ ४५ विगतानुवादनीतौ सुरकोपादिषु चतुर्दश गुणाः स्युः । नव मार्गणान्तर इति प्रोक्तं वेदे ऽन्यथा नीतिः ॥ ४५ ॥ न च बाधकं विमुक्तेः स्त्रीणांमनुशासकं प्रवचनं च ।। संभवति च मुख्येऽर्थे न गौण इत्यार्यिका सिद्धिः ॥४६॥
॥ इति स्त्रीनिर्वाणप्रकरणं समाप्तम् ॥ १ अमृ । २ कल्प्याः । ३ व्यंगे । ४ ब्दा । ५ वहौणः । ६ त्तश्च । ७ अनद्गुह्याऽनद्वाहीं। ८ नद्वाहमनदूगुहा ९ तिर्यक् । १० अनुशोसकम् ।
Aho! Shrutgyanam