________________
३
शाकटायनाचार्यविरचितं वस्त्राद् न मुक्तिविरहो भवतीत्युक्तं, समग्रमन्यच्च । रत्नत्रयाद् न वाऽन्यद् युक्त्यङ्ग शिष्यते सद्भिः ॥ २१ ॥ प्रजाजना निषिद्धा क्वचित्तु रत्नत्रयस्य योगेऽपि । धर्मस्य हानि-वृद्धी निरूपयद्भिर्विद्ध्यर्थम् ।। २२ ।। अप्रतिवन्द्यत्वात् चेत् संयतवर्गेण नाऽऽर्यिकासिद्धिः। वन्द्यतां ( वदन्तां) ता यदि ते, नोनत्वं कल्प्यते तासाम् ॥ २४ ॥ सन्त्यूनापुरुषेभ्यस्ताः स्मारण-चारणादिकारिभ्यः । तीर्थकराऽऽकारिभ्यो न च जिनकल्पादिरिति गणधरादीनाम् ॥ २५ ॥ अर्हन् न वन्दते न तावताऽसिद्धिरङ्गगतेः। प्राप्ताऽन्यथा विमुक्तिः, स्थानं स्त्री-पुंसयोस्तुल्यम् ॥२६॥ आकृष्यते श्रिया स्त्री पुंसः सर्वत्र किं न तन्मुक्ती । इत्यमुना क्षेप्यस्त्री-पुंसां सिद्धिः ( सिद्धं ) सममरुक्त्वम् ॥ २७ ॥ मायादिः पुरुषाणामपि देशाधि ( द्वेषादि ) प्रसिद्वैभावश्च । षण्णां संस्थानानां तुल्यो वर्णत्रयस्यापि ॥ २८ ॥ 'स्त्री 'नाम मन्दसत्त्वा उत्सङ्गसमग्रता न तेनाऽत्र । तत् कथमनल्पवृत्तयः सन्ति हि शीलाम्बुधेर्वेलाः ॥ २९ ।। ब्राह्मी सुन्दर्याऽऽर्या राजीमती चन्दना गणधराऽन्या । अपि देव-मनुज-मंहिताः विख्याताः शील-सत्त्वाभ्याम् ॥ ३०॥ गार्हस्थ्येऽपि सुसत्त्वा विख्याता शीलवातितमा जगति । सीतादयः कथं तास्तपसि विसत्त्वा विशीलाश्च ॥ ३१ ॥ संत्यज्य राज्यलक्ष्मी पति-पुत्र-भ्रातृ-बन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः ॥ ३२॥ महता पापेन स्त्री-मिथ्यात्वसहायकेन न सुदृष्टिम् ।। स्त्रीत्वं चिनोति, तद् न, तदङ्ग क्षपणेऽपि निर्मानम् ॥ ३३ ॥ अन्तःकोटीकोटीस्थितिकानि भवन्ति सर्व-कर्माणि ।
सम्यक्त्वलाभ एवाऽशेषोऽप्यक्षयकरो मागः ॥३४॥ १ सिध्यते । २ सन्न्यूनाः । ३ द्धा । ४ मुत्संग । ५ वेलाः । ६ स्य हिताः । ७ शीता । ८ शेषा.
Aho! Shrutgyanam