________________
स्त्रीमुक्तिप्रकरणं वादादिलब्ध्यभाववद् अभविष्यद यदि च सिद्धयभावोऽपि । तासामवारयिष्यद् यथैव जम्बूयुगादारात् ॥ ८ ॥ 'स्त्री'ति च धर्मविरोधे प्रव्रज्यादोषविंशतो 'स्त्री'ति । बालादिवद् वदयुर्न 'गर्भिणी बालवत्से' ति ॥ ९॥ यदि वस्त्राद अविमुक्तिः, त्यजेत तद्, अथ न कल्पते हातुम् । उत्सङ्गप्रतिलेखनवद्, अन्यथा देशको दूष्येत ॥ १० ॥ त्यागे सर्वत्यागो ग्रहणेऽल्पो दोष इत्युपादेशि । वस्त्रं गुरुणाऽऽर्याणां परिग्रहोऽपीति चुत्यादौ ॥ ११ ॥ यत् संयमोपकाराय वर्तते प्रोक्तमेतदुपकरणम् । धर्मस्य हि तत् साधनयतोऽन्यद् अधिकरणमाहाऽहंन् ॥ १२॥ अस्तैन्यबाहिर(*अस्त्यैर्यव्याहार) व्युत्सर्गविवेकैपणादिसमितीनाम् । उपदेशनमुपदेशो ह्युपधेरपरिग्रहत्वस्य ॥ १३ ॥ निर्ग्रन्था.... ... ... 'शास्त्रे सर्वत्र नैव यज्येत । उपधेर्ग्रन्थत्वेऽस्याः पुमानपि तथा न निर्ग्रन्थः ॥ १४ ॥ संसक्तौ सत्यामाप चोदितयत्नेन परिहरन्त्यार्या । हिंसावती पुमानिव न जन्तुमालाकुले लोके ॥ १५ ॥ वस्त्रं विना न चरणं स्त्रीणामित्यहतीच्यत, विनाऽपि । पुंसामिति न्यवार्यत ( नाऽवार्यत ), तत्र स्थविरादिवद् मुक्तिम् (मुक्तिः )॥१६॥ अर्शी-भगंदरादिषु गृहीतचीरो यतिन मुच्यत ।। उपसर्गे वा चीरे ग्दादिः संन्यस्यते चात्ते ॥ १७ ॥ उत्सङ्गमचेलत्वं नोच्येत तदन्यथा नरस्याऽपि । आचेलक्या(क्यं)योग्यायोग्याऽसिद्धेरदीक्ष्य इव ॥ १८ ॥ इति जिनकल्पादीनां युक्त्यङ्गानामयोग्य इति सिद्धेः। स्याद् अष्टवर्षजातादिरयोग्यो ऽदीक्षणीय इव ॥ १९ ॥ संवर-निझररूपो बहुप्रकारस्तपोविधिः शास्त्रे ।
योगचिकित्साविधिरिव कस्याऽपि कचिदुपकारी ॥२०॥ १ उत्संगं । २ देसको । ३ ल्यो । ४ धेग्न । मुत्पंग । * () एतचिह्नान्तर्गताः पाठाः संपादककल्पिताः ।
Aho ! Shrutgyanam