________________
॥ ॐ अहम् ॥ ॥ नमोस्तु श्रमणाय भगवते श्रीमहावीराय ॥ यापनीय-यतिग्रामाग्रणिभदन्त-शाकटायनाचार्य-विरचितं
स्त्रीमुक्ति-केवलिभुक्ति प्रकरणयुग्मम्
॥ स्त्रीमुक्तिप्रकरणं ॥
प्रणिपत्य भुक्तिमुक्तिप्रदममलं धर्ममहतो दिशतः । वक्ष्ये स्त्रीनिर्वाणं केवलिभुक्तिं च संक्षेपात् ॥ १॥ अस्ति स्त्रीनिर्वाणं पुंवत्, यदविकलहेतुकं स्त्रीषु । न विरुध्याति हि रत्नत्रयसंपद् निवृतहेतुः ॥२॥ रत्नत्रयं विरुद्धं स्त्रीत्वेन यथाऽमरादिभावन । इति वाआत्र नात्र प्रमाणमाप्ताऽऽगमो ऽन्यद् वा ॥३॥ जानीते जिनवचनं, श्रद्धत्ते, चरति चाऽऽर्यिका शबलम् । नाऽस्याऽस्त्यसंभवोऽस्यां नाऽदृष्टविरोधगतिरस्ति ॥४॥ सप्तमपृथिवीगमनाद्यभावमव्याप्तमेव मन्यन्ते । निर्वाणाऽभावेनाऽपश्चिमतनवो न तो यान्ति ।। ५ ।। विषमगतयोऽप्यधस्ताद् उपरिष्टात् तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः॥ ६॥ वाद-विकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि च ।
जिनकल्प-मनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥ ७॥ प्रतिगतपाठाः--१ विकुर्वाण
Aho! Shrutgyanam