________________
तरङ्ग -१५ : अगडदत्तकुमारचरितम्
पन्थाः शङ्खपुरं सैष दवीयानुपतिष्ठते । असौ त्वासन्नमेवास्ति परमत्यन्तदुर्गमः ॥ २१५ ॥ दुर्योधनो धनप्राणा- पहारी परिपन्थिकः । यदस्ति हस्तीवन्द्योऽत्राऽनश्वरश्च मृगेश्वरः ॥ २१६ ॥ वचनं तदपाकर्ण्य, सोऽयं धीरधुरन्धरः । आसन्नेनैव मार्गेण प्राजयामास वाजिनः ॥ २१७ ॥ कुमारस्यैव सार्थेन, केचित् पान्थाः प्रतस्थिरे । गुरोरिव चरित्रेण, पवित्रेण मुमुक्षवः ॥२१८॥ अन्तः कान्तारमेतस्य गच्छतः स्वच्छचेतसः । अर्द्धमार्गगतः कश्चिद् भस्मकश्मलविग्रहः ॥ २१९ ॥ कपालमालाभरणो रणद्घण्टाऽतिभीषणः । स्कन्धपाणितलन्यस्त करण्डककमण्डलुः ॥ २२० ॥ अत्युद्भटजटाजूटः स्थित्वा कापालिकः पुरः । उत्क्षिप्य दक्षिणं पाणिं, साशीर्वादमदोऽवदत् ॥२२१ ॥ (विशेषकम् ) सार्थेश ! तीर्थयात्रायां प्रस्थितः सुचिरादहम् । असुस्थत्वात् पथः किन्तु भवतः सार्थमर्थये ॥२२२ ॥ अनुज्ञातः कुमारेण, प्रस्थितोऽनुरथं ततः ।
उत्पाट्य नकुलीं टङ्क सङ्कटामथ सोऽब्रवीत् ॥२२३॥ कुर्वतस्तीर्थ यात्रां मे क्वचित् केनचिदर्पिताः । टङ्कास्तीर्थार्थमेते तत्कुरू त्वं भारधारणम् ॥२२४॥ नकुलीं स्थापयित्वेत्थं तदभ्यर्थनया रथे । व्रजन् कुमारो मध्याह्ने, गिरिग्रामं कमप्यगात् ॥२२५॥ तत्रावस्थापितरथं कुमारमवदन्मुनिः ।
धर्मशील! ममाद्य त्वं ससार्थोऽप्यतिथिर्भव ॥ २२६ ॥
१४७
कथारत्नसागरे
१४८
यदैष सच्चतुर्मासीमिमामहमिह स्थितः । आतिथ्यं प्रथयिष्यन्ति तन्मे ग्रामेयका अमी ॥२२७ ॥ मुनिभिर्लब्धमस्माकं, भोक्तुं युक्तं कथं भवेत् ? । कुमारवारितोऽपीत्थमातिथ्यमयमानयत् ॥ २२८ ॥ धर्म्मसारकुमारोऽसौ सहर्षेण महर्षिणा । बभूवात्युपरुद्धोऽपि तल्लाभं नाभिलाषुकः ॥ २२९ ॥ करम्भदुग्धदध्यादि तत्तेनात्यर्थमर्थिताः ।
परे बुभुजिरे सर्व कुमारे वारयत्यपि ॥ २३० ॥ दत्त्वा ताम्बूलमेतेषां स्वयं भोक्तुं जगाम सः । स्वापमापुः पथश्रान्ताः पान्थास्तेऽपि तरोस्तले ॥२३१ ॥ कुरुते राजपुत्रोऽपि भोक्तुं यावदुपक्रमम् । कपाली खड्गमाकर्षन् रोषात्तावदधावत ॥ २३२ ॥ रे रे वराक ! राकेन्दु - मुखलक्ष्मीमिमां वहन् । क्व यास्यसि यतः सैष, दस्युर्दुर्योधनोस्म्यहम् ॥ २३३ ॥ विषच्छलादमी पान्थाः पान्था मृत्युपथे कृताः । त्वां तु खड्गबलादेव करिष्यामि यमातिथिम् ॥२३४॥ चौरं तमिति वलान्तं विस्मितः क्षितिपात्मजः । कुक्षौ कौक्षेयकक्षेपात् पातयामास भूतले ॥ २३५ ॥ दस्युर्दैन्यादुदन्त्यार्त्तः कुमारमुखमैक्षत । सोऽपि पानीयमानीय, कृपया तमपाययत् ॥ २३६ ॥ स्वस्थीभूतस्ततो दस्युस्तस्य पश्यन् कृपालुताम् । तथाऽऽतिथ्ये च वैमुख्यं विमृश्यन्निदमभ्यधात् ॥ २३७ ॥ त्वया भयं च लोभं च धैर्यान्निर्जित्य दुर्जयम् । जितश्च रञ्जितश्चाहं मुमूर्षुः किञ्चिदर्थये ॥२३८ ॥