________________
तरङ्ग-१५ : अगडदत्तकुमारचरितम्
प्रणतः प्रश्नितो राज्ञा, सुवेगस्य मुखेन सः । आदितः पितृवृतान्तं सर्वमस्मै व्यजिज्ञपत् ॥ १९९ ॥ जामातुर्यातुमौत्सुक्यं, विज्ञो विज्ञाय पार्थिवः । स्वदेशगमनोत्साह- मनुमेने मनस्विनाम् ॥१९२ ॥ उपाध्यायगृहं गत्वा, नत्वा तं नृपतेः सुतः । यथावृत्तं सुवृत्तान्तमथ तस्मै न्यवेदयत् ॥ १९३ ॥ ततश्च तदनुज्ञातस्तत्पत्नीकृतमङ्गलः । द्रविणैः प्रीणयित्वा तं प्रयाणप्रवणोऽभवत् ॥ १९४ ॥ सेनापत्यादि-पल्यादि सामग्रया च समं नृपः । सुतां संवाहयामास वासः कोशादिसम्भृताम् ॥ १९५ ॥ शिक्षां दत्त्वा यथोचितां, जामातुर्दुहितुश्च सः । जवनैर्वाजिभिर्वेगात् प्रयाणकमकारयत् ॥ १९६ ॥ ( युग्मम् ) ततः कमलसेनादि- कटके चलिते सति ।
तस्थौ कुमारस्तत्रैव रथमात्रपरिच्छदः ॥ १९७ ॥ ततस्तमिश्रैर्मिश्रायान्तमिश्रायां स्वयं गतः ।
१४५
दूतिकासदने तत्र स्थापयित्वा स्वयं रथम् ॥ १९८ ॥ सम्प्रेष्य दूतीमाहूय ततो मदनमञ्जरीम् ।
कुमारो रथमारोप्य, निन्ये शून्येन वर्त्मना ॥ १९९ ॥ ( युग्मम् ) सैन्येन सङ्ग तस्याथ त्वरितं तस्य गच्छतः । निवेशितवतः सैन्यमन्यदा विन्ध्यकाननौ ॥ २०० ॥ अर्द्धरात्रे तम: पात्रे निद्रान्धनयने जने । पपात सौप्तिकं भिल्ल- भल्लिपल्लविताम्बरम् ॥२०१ ॥ उत्थायोत्थाय सक्रोधं युध्यमानेषु मानिषु । समारोहत् कुमारोऽपि स च रुह्यमनोरथम् ॥ २०२ ॥
१४६
ततः पल्लीपतिर्भीमः स्वयं निःसीमपौरुषः । रङ्गत्तुरङ्गमारूढः प्रौढः क्रोधादधावत ॥ २०३ ॥ वायुनेवाम्बुदस्तवा हरिणा हरिणा इव । कुमारसुभटास्तेन भीता नीता दिशो दिशम् ॥ २०४ ॥ कुमारः स्वयमुत्थाय प्रतपत् तपनोपमः । दूराद् भिल्लतटव्रातं तमस्तोममिवाक्षिपत् ॥ २०५ ॥ सोऽपि पल्लीपतिः शौर्याद् गर्जन्पर्जन्यसन्निभः । दुर्निवारं शरासारं कुमारं प्रतिचिक्षिपे ॥ २०६ ॥ द्वयोरपि तयोर्युद्ध-मुद्धतं तत्तथाऽभवत् । यथा जयश्रीरश्रान्ता मेहिरेयाहिरां व्यधात् ॥२०७॥ बलेन दुर्जये तस्मिन् इच्छती च्छलतो जयम् । कुमारसारथीभावं भेजे मदनमञ्जरी ॥२०८ ॥ स पल्लीश: कुमारेण, मारेण च समं हतः । प्रपञ्चात् पञ्चभिर्बाणैः पञ्चत्वमगमत् ततः ॥ २०९ ॥ कुमारविक्रमाक्रान्ति-पावनीमवनीं स्पृशन् । सहस्रेण करैः प्रापत् तदानीमुदयं रविः ॥२१० ॥ ततः स्वसैन्यमन्विष्यन् नष्टं कष्टगतं मृतम् । सञ्चचार कुमारोऽसौ चरणाभ्यां रणाङ्गणे ॥२११ ॥ कृत्वा मृतानां कृत्यानि स विचिन्वन् वनावनिम् । नाऽक्षतं वा क्षतं वापि जीवन्तं कञ्चिदैक्षत ॥ २१२ ॥ पृष्ठप्रतिष्ठतूणीरः स जानुन्यस्तकार्मुकः । एकेनैव रथेनाऽथ प्रतस्थे प्रेयसीसखः ॥२१३ ॥ गच्छतोर्ध्वं पथे तस्य सङ्गतं पुरुषद्वयम् । चकार सादरं मार्ग-स्वरूपस्य प्रकाशनम् ॥ २१४ ॥
कथारत्नसागरे