________________
१४९
तरङ्ग-१५ : अगडदत्तकुमारचरितम् एतस्य पर्वतस्याऽस्मिन्निकुञ्जे विवरं वरम् । मन्दिरं कोशसर्वस्व-स्थानं जानीहि मामकम् ॥२३९ ।। किञ्चास्ति सुन्दरी नाम्ना रूपेण सुरसुन्दरी । प्रिया कृशोदरी यस्या, नाभि ति दृशोदरी ॥२४० ॥ तद्धर्मविक्रमाधार ! कुमार द्रविणं प्रियाम् । मदभ्यर्थनया सार्द्ध गृहाणानुगृहाण माम् ॥२४१ ।। परासोस्तस्य कृत्यानि, कृत्वा नृपसुतस्ततः । गत्वा तद्भवनं तस्य, पत्न्यै सर्वं न्यवेदयत् ॥२४२ ॥ पुरः कुमारं पश्यन्ती, साप्यनङ्गमिवाङ्गिनम् । किङ्कर्त्तव्यजडा चित्रपुत्रिकेव तदाऽभवत् ॥२४३ ॥ तदा च सद्योभूतेन प्रबलेन मनोभुवा । कुमारोऽपि समारोपि, परं परवशां दशाम् ॥२४४ ॥ तौ निरीक्ष्य तथाऽवस्थौ तदा मदनमञ्जरी । सभ्रूभङ्गमुपालम्भलब्ध-प्रागल्भ्यमभ्यधात् ॥२४५ ।। आर्यपुत्र ! पवित्रं ते, किमिदं पुरुषव्रतम् ? | यन्निन्दितजनक्षुण्णां वर्तनीमनुवर्त्तसे ॥२४६ ॥ तत्कुलं निर्मलं स्वीयं तादृशं प्रेम मामकम् । प्रसादः सादरस्ताहक्, सन्धाबन्धश्च तादृशः ॥२४७ ।। सर्वमेकपदे भ्रष्टं नष्टं तत् तव पौरुषम् । यत् काकोल इवाऽमेध्ये चौरदारेऽपि रज्यसे ॥२४८ ॥ यत्कृते तत्यजे शीलं पितृश्वसुरयोः कुलम् । सोऽपि त्यजति निर्दोषां, यन्मां धिग् दैववैभवम् ॥२४९ ।। इत्याक्षिप्तः कुमारोऽसौ, तस्या वचनवीचिभिः । धौतरागो निजग्राह, चेतः परपरिग्रहात् ॥२५० ॥
१५०
कथारत्नसागरे अनुनीय समानीय, रथं मदनमञ्जरी । स्त्रियं श्रियं च तां दस्यो-स्त्यक्त्वासौ पुरतोऽगमत् ॥२५१ ॥ अथान्तर्वणमायान्तं कृतान्तमिव भैरवम् । वानेयमग्रतोऽद्राक्षीत् कुञ्जरं नरकुञ्जरम् ॥२५२ ॥ वशीकृत्य वशानाथमक्षतः क्षितिपात्मजः । सुदृशा दर्शयित्वा च प्रपेदे पदवीं पुनः ॥२५३ ॥ यावदध्वनि सध्वान स्पन्दनो नृपनन्दनः । कियत्यपि गतस्तावन्नृत्यन्तं सज्जितक्रमम् ॥२५४ ।। लालघातसम्पात-पटहीभूतभूतलम् । पुरः पारीन्द्रमद्राक्षीत् प्रभाभासुरकेसरम् ॥२५५ ॥ (युग्मम्) उत्तरीयावृतं पाणिं तन्मुखे प्रक्षिपन्नयम् । निन्ये शस्त्रीप्रपञ्चेन, पञ्चास्यमपि पञ्चताम् ॥२५६॥ दिनैः कतिपयैरेव कुमारो मार्गमत्यजन् । निस्तीर्णस्तामरण्यानी, प्रतिज्ञामिव सात्त्विकः ॥२५७ ॥ ततः स पुरतः सैन्यं, साधुवादमिवासदत् । प्रदत्तावासमासन्नप्रदेशे सन्मुखागतम् ॥२५८ ॥ पप्रच्छ पूर्ववृत्तान्तं तन्मुख्यान् क्षितिपात्मजः । तेऽप्याख्यन् श्रूयतां देव ! तदा पतति सौप्तिके ॥२५९॥ कुमारः कारणाच्चक्रे, प्रयाणं सत्वरं पुरः । तदुत्तिष्ठत वेगेनेत्यूचे कैश्चित् तदा शठैः ॥२६० ॥ ततः कमलसेनां च सेनां च सहसैव ताम् । संवाह्यस्तेन वाह्येन, वर्त्मना विगता वयम् ॥२६१ ॥ यदा दृष्टोऽसि नाऽस्माभिः कान्तारान्निर्गतैरपि । पर्यालोच्य तदाऽत्रैव दत्तावासैरिव स्थितम् ॥२६२ ॥