________________
१३१
तरङ्ग-१५ : अगडदत्तकुमारचरितम् भत्य॑न्ते पितृभिर्दोषाः, केवलं न तु सूनवः । भूतान्येव हि ताड्यन्ते, न तु पात्राणि मान्त्रिकैः ॥२४॥ स्थानं पितृगृहेऽप्यङ्ग, यत्सङ्गत्या न लभ्यते । दोषज्ञस्तदिमान् दोषान् सम्प्रति प्रतिकूलय ॥२५॥ गौरवाय गुणा एव, न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्प-मङ्गजस्त्यज्यते मलः ॥२६॥ कुमारोऽथाऽभ्यध्यात् साधु बोधितोऽस्मि गुरो! त्वया । रवेरविषयः स्वान्त-ध्वान्तं हन्ति गुरुः परम् ॥२७॥ पितृभ्यां निर्ममे जन्म, प्रपञ्चः पाञ्चभौतिकः । ज्योतिर्मयं तु यज्जन्म, तन्मन्ये गुरुसम्भवम् ॥२८॥ तत्प्रभो ! यत् त्वयादिष्ट-मिष्टसिद्धिं विधित्सता । तन्मया मनसि ध्येयं, विधेयं च निरन्तरम् ॥२९॥ गुरुरानीय तं हृष्ट-वदनं सदनं ततः । सच्चक्रेऽभ्यञ्जनस्नान-वसनाऽशनपूर्वकम् ॥३०॥ ऊचे चात्रैव वत्स ! त्वं, स्थितः पितुरिवालये । स्वच्छन्दमुपभोगेन कृतार्थय मम श्रियम् ॥३१॥ तथेति विजिताऽवद्यः प्रतिपद्य गुरोर्गिरम् । नित्यमाराधयामास, विनयं च नयं च सः ॥३२॥ गुरुप्रसादादभ्यस्यन्, दिनैः कतिपयैरयम् । शस्त्रशास्त्रकलाचार-पारपारीणतां ययौ ॥३३॥ सुगन्धिपवने गेहो-पवने पुष्पपावने । खलूरिकायामन्येयुः सहेलं खेलतः शरैः ॥३४॥ कुमारस्य स्थिरं चक्षुर्लक्ष्ये निक्षिप्य तस्थुषः । अशोकस्तबकाघातपात: पृष्ठे झटित्यभूत् ॥३५॥
१३२
कथारत्नसागरे आकृष्य लक्ष्यतश्चक्षुः, साक्षेपं यावदीक्षते । बालामालोकयामास, स तावन्नवयौवनाम् ॥३६॥ अचिन्तयच्च स्त्रीभावमाविष्कृत्येयमागता । वसन्तश्रीरियं किं वा, किं वा शक्तिर्मनोभुवः ॥३७॥ ततो भ्रूचाप निर्मुक्तै-नयनोपान्तपातिभिः । कटाक्षबाणैरदयं, हृदयं तस्य साऽभिदत् ॥३८॥ सविकारं कुमारं च विज्ञा विज्ञाय विभ्रमैः । उवाच वाचं सा चन्द्र-वदना मदनातुरा ॥३९॥ मम त्वं सुभगोत्तंस ! यतः प्रभृति लोचनैः । दिष्ट्या दृष्टः प्रविष्टोऽसि, ततः प्रभृति मानसे ॥४०॥ तत्त्वं परपरित्राण-प्रौढनियूंढपौरुषः ।। श्रितः स्मरशरासार-विधुरे शरणं मया ॥४१॥ किन्तु स्वार्थविनिर्माण-विमुखाः पुरुषोत्तमाः । प्राणानपि परस्यार्थे, गणयन्ति तृणोपमा ॥४२॥ मत्प्रार्थनामिमां नाथ!, नाऽथ सम्प्रतिपद्यसे । तदा जानीहि मत्प्राणान्, प्रयाणं कृतपूर्विणः ॥४३॥ तदाकर्ण्य कुमारोऽपि, विस्मयोत्तानमानसः । ब्रूते स्म काऽसि भद्रे ! त्वं, किं नामा कस्य वा सुता ? ॥४४॥ साप्याख्यद् बन्धुदत्ताख्यः श्रेष्ठी पुरधुरन्धरः । इहास्ति वेश्म यस्यैत-द्विमानप्रतिमं पुरः ॥४५॥ तस्याहं दुहिता ख्याता, नाम्ना मदनमञ्जरी । पितृवात्सल्यतः किञ्चित्, कलातत्त्वेऽप्यधीतिना ॥४६॥ दैवादननुरूपेण पत्या किन्तु विडम्बिता । लक्ष्मीर्मितम्पचेनेव, भारती बाल्यमेधसा ॥४७॥