________________
तरङ्ग -१५ : अगडदत्तकुमारचरितम्
पतिर्मुग्धो विदग्धानां जडः प्रज्ञावतां गुरुः । शूराणां नश्वर स्वामी, मृत्योरपि विशिष्यते ॥ ४८ ॥ तत्पितुर्गृह एवात्र तिष्ठन्त्या मम सर्वदा । दैवेन दर्शितोऽसि त्वं चकोर्या इव चन्द्रमाः ॥ ४९ ॥ तन्मम त्वं पतिस्त्वं च वल्लभस्त्वं च मानसम् । जीवितं त्वं च जीवोऽपि त्वं च जानामि नाऽपरम् ॥५०॥ तस्याः कुमारो रूपेण गिरा स्नेहेन मोहितः । अचिन्तयदहो व्याघ्र - दुस्तटी सङ्कटं मम ॥ ५१ ॥ ऊचे च कुरु रम्भोरु !, मा मनः खेदमेदुरम् । करिष्ये सफलं काले, त्वन्मनोरथपादपम् ॥५२॥ ततः प्रमोदिनी धाम, जगाम गजगामिनी । तुरङ्गमधिरूढस्तु, कुमारोऽभ्यन्तरं पुरः ॥ ५३ ॥ भ्रमन् पुरान्तरेऽश्रौषीदसौ कलकलारवम् । अमन्दमन्दराघूर्ण-दर्णवध्वनिबान्धवम् ॥५४॥ शून्यान् चतुष्पथान् हृट्टानभितः पिहिताननान् । अति त्वरितसञ्चारादन्योन्यास्फुलितान् जनान् ॥५५ ॥ दृष्ट्वाऽसौ विस्मितो यावदग्रतश्चक्षुरक्षिपत् । तावद् धावन्तमुद्दण्ड- शुण्डमूर्जितगर्जितम् ॥५६ ॥ आध्मातताम्रताम्रास्यं प्रावृडम्भोदसोदरम् । पवनाघातपातेऽपि धुन्वन्तं चासनत्रयम् ॥५७॥ सप्तश्रोत: श्रवद्दान- वारिझात्कारदारुणम् । प्रसरन्निर्झरोद्गारं गिरीन्द्रमिव जङ्गमम् ॥५८॥ अपरान्तविलम्बिन्याः शृङ्खलायाः खलत्कृतेः । परितः परिसर्प्पद्भि-र्मुहुर्मुखरिताम्बरम् ॥५९॥
१३३
१३४
कथारत्नसागरे
आयान्तमग्रतोऽद्राक्षीत्, प्रतिकारैरनुद्रुतम् ।
सहसा साहसोदारः कुमारः करिपुङ्गवम् ॥ ६० ॥ (कुलकम् )
ततः सधैर्यमुत्तीर्य चतुरः स तुरङ्गमात् । उत्तरीयं करे कुर्वन् रभसादिभमभ्यगात् ॥ ६१ ॥
त्रस्यत्सु प्रतिकारेषु लोके हाकारकारिणि । आजघानोत्तरीयेण कुमारः करिण: करम् ॥ ६२ ॥ प्रससार ततः कोपात् प्रसृत्वरकरङ्करी । निःससार कुमारोऽपि, वेगाद् वलितकन्धरम् ॥६३॥ पातित पातितो हा ! हा ! हतो हत इति स्फुटम् । लोकेषु मुखरेष्वेष, पेचके हन्ति दन्तिनम् ॥६४॥ पुच्छगुच्छान्तमालम्ब्य लम्ब्यमानो मुहुर्मुहुः । अपरारोपिताङ्घ्रिः सन्नयं भ्रमयति द्विपम् ॥ ६५ ॥ हत्वा सफलकमुष्टि-प्रहारेणातिरंहसा । क्षणेन परतो याति निर्गत्य चरणान्तरात् ॥ ६६ ॥ सहेलं खेलयित्वेति, वलन्नग्रेऽथ तर्जयन् ।
पुनः प्रसारयामास, कुमारः कुञ्जरं जवात् ॥६७॥ उत्तरीये ततः क्षिप्ते, पुरः परिणतं क्षणात् । आरुरोह कुमारस्तं, क्रोधान्धं गन्धसिन्धुरम् ॥६८॥ पादप्रणिधियोगेन, निगृहीतमतङ्गजः । अर्चितः पौरनारीणां नेत्रेन्दीवरदामभिः ॥६९ ॥ पुरस्कृतप्रतीकार-स्तारमाधोरणैः स्तुतः ।
स नीत्वा हस्तिनं हस्ति- शालमालानयत् ततः ॥ ७० ॥ ( युग्मम् ) दृष्ट्वा तदूर्जितं तादृक्, कुमारस्य सविस्मयः ।
भूपो भुवनपालाख्य-स्तं समाह्वास्त वेत्रिणा ॥ ७१ ॥