________________
१२९
तरङ्ग-१५ : अगडदत्तकुमारचरितम्
अगडदत्तकुमारचरितम् तरङ्गः - १ जितकल्पद्रुमारामं, गुणग्राममुपास्महे । भुक्तिमुक्तिसुखं यस्मादसङ्कल्पितमाप्यते ॥१॥ मतिमद्भिस्ततः कामं, दृष्ट्वाऽदृष्टफलार्थिभिः । दोषेषु द्वेषमाधाय, यतितव्यं गुणार्जने ॥२॥ दोषत्यागं गुणाभ्यासं, स्पृष्टदृष्टफलोदयम् । विधायाऽगडदत्तोऽभूत् पदं कल्याणसम्पदः ॥३॥ अस्ति शङ्खपुरं नाम, पुरं माखण्डमण्डनम् । समग्रपुरसौन्दर्य-निर्यासैरिव निर्मितम् ॥४॥ कृतविश्रान्तयः श्रान्ति-श्रयन्त्यः सरसां श्रियम् । मध्ये सुश्रोणयो यस्मिन्, बहिश्च क्षोणयो बभुः ॥५॥ आसीद् विश्वत्रयख्यात-स्तत्र शक्तित्रयोर्जितः । पुरुषार्थत्रयास्वाद-सादरः सुन्दरो नृपः ॥६॥ खड्गदण्डे धनुर्दण्ड-दोर्दण्डे च निवासिनी । नानास्थानश्रिताऽपि श्री-र्यस्य नो दण्डमत्यजत् ॥७॥ गुणेषु विज्ञा सञ्जज्ञे दोषेष्वज्ञाऽस्य वल्लभा । पुण्येषु सोधमा पापेष्वलसा सुलसाभिधा ॥८॥ कालेनाऽजनि तत् कुक्षि-शुक्तिमुक्तामणिः सुतः । क्षितावगडदत्ताख्यः, साक्षादिव मनोभवः ॥९॥ किन्तु चौर्यादिभिर्दोषैरशेषैः कलुषीकृतः । शुचिभ्यां न्याय-धर्माभ्या-मयं दूरेण तत्यजे ॥१०॥ धर्मासनसमासीने, कदाचिदथ पार्थिवे । कुमारकर्तृकं पौरा, शशंसुः पुरविप्लवम् ॥११॥
१३०
कथारत्नसागरे नृपतिः कुपितोऽवादी-दहो ! मे मन्दभाग्यता । बभूव विध्वस्तनयः, तनयो यदयं मम ॥१२॥ सुतस्य तस्याऽजननिर्यद्वा भूयादजीवनिः । मालिन्यं जन्यते येन, कलङ्कविकले कुले ॥१३॥ नयभ्रष्टः कथङ्कारं, दर्शयत्युज्वले जने । दुश्चरित्रगुरुश्चित्र-कलङ्ककलुषं मुखम् ॥१४॥ विज्ञेनाऽभिसभं राज्ञा, सावज्ञमिति भर्त्सितः । कुमारो निष्परीवारो, नगरान्निरगान्निशि ॥१५॥ अथ श्माचक्रमाक्रामन् क्रमेण नृपनन्दनः । समाससाद सौराज्यसारां वाराणसी पुरीम् ॥१६॥ परिश्रान्तः प्रविश्यान्त-स्तस्याः पश्यन् पुरश्रियम् । मठमेकं पठच्छात्रोच्छलद्घोषं ददर्श सः ॥१७॥ तस्मिन् पवनचण्डाख्य-मुपाध्यायं कलानिधिम् । प्रणम्योपाविशद् भूभृत्तनयो विनयोचितः ॥१८॥ अथाध्यायमुपाध्यायो विसृज्य स्मेरलोचनः । तमवोचत् कुतोऽभ्यागा, भद्र का वा तवाभिधा ? ॥१९॥ अथास्मै कथयामास, कुमारोऽपि यथातथम् । उवाच सोपि वात्सल्य-कुल्यापल्लवितां गिरम् ॥२०॥ न साधु विहितं वत्स ! त्यक्तौ यत् पितरौ त्वया । नित्यं तीर्थाभिषेको हि, पितृक्रमनखत्विषा ॥२१॥ गिरो गुरूणां प्रमुखे, कटवो आयतौ हिताः । भवन्ति भेषजानीव, कफघ्नानि शरीरिणाम् ॥२२॥ गुरवस्ताडयन्तोऽपि, भवन्ति हितहेतवे । घर्षयन्नपि रत्नानां, तेजसे मणिकारकः ॥२३॥