________________
तरङ्ग-१३ : पुरन्दरकथा
११९ अब्रवीत् क्वासि का भद्रे!, किमर्थं चाऽत्र रोदिषि ? । साऽवोचद् भालमाहत्य, मन्दभाग्यास्मि किं ब्रुवे ? ७२ ।। श्रुत्वा च रुदतीमेतां, नपोऽपि सकृपस्तदा । तत्रायातस्तयोर्वार्ताः, शृण्वन्नस्थात् तिरोहितः ॥७३ ।। अत्रान्तरे च साऽवादी-दहं देशाधिदेवता । स्वभर्तुरप्रतीकारं, व्यसनं वीक्ष्य रोदिमि ॥७४ ।। यदाऽऽयाता श्मशानेऽस्मि-न्नतिक्रूराऽद्य राक्षसी । प्रचण्डा भैरवी नाम्नी, नृपं व्यापादयिष्यति ॥७५ ॥ ततः प्राह कुमारस्तां, मातः ! सा दुर्धरा यदि । तन्मदीयेन देहेन, तोषयैतां प्रसीद मे ॥७६ ।। साप्यूचे वत्स ! बालोऽपि, क्षीरस्यापि न तृप्यसि । मृत्वा तद्भुक्तभोक्तव्यं, किमेनं परिरक्षसि ? ॥७७॥ स्वदेहेनाऽमुना किंच, मुमूर्षु यदि रक्षसि । हस्तिमल्लेन तत् कल्लं, क्रीणासि त्वं जरद्गवम् ॥७८ ॥ राजपुत्रोऽभ्यधादम्ब ! कृतघ्नेन विनाशिना । किं पोषितेन देहेन, कार्यं चेन्नोपयुज्यते ॥७९॥ किञ्च देहस्य धर्मस्य, वैभवस्य सुखस्य वा । सर्वस्वदाता मे तातस्तस्मै किं दीयते मया ! ॥८॥ सूनोर्मन्ये तदेवाऽहं, भूषणोद्भासुरं शिरः । यत्र चूडामणीयन्ते, जनकांहिनखत्विषः ॥८१ ॥ ये क्वापि नोपयुज्यन्ते, पितुः सर्वस्वदायिनः । गृह्णाति कः कृतघ्नानां, तेषां नामापि पापिनाम् ॥८२॥ तत् किञ्चित्केनचित् क्वापि, प्राप्यते पर्व सर्वथा । शरीरेणाऽस्थिरेणापि, स्थिरं यत्राय॑ते यशः ॥८३॥ तन्मदीयेन वपुषा, तोषयित्वा निशाचरीम् । कुशलं कुरु तातस्य, मातः सद्यः प्रसद्य मे ॥८४॥
१२०
कथारत्नसागरे इत्युक्त्वा पादयोस्तस्याः, पपात नृपतेः सुतः । राजाऽपि रञ्जितो यावत्, भावितस्तमुपासितुम् ॥८५ ॥ तावन्मूर्ध्नि कुमारस्य, पुष्पवृष्टिरभूद्दिवः । विस्मितश्चोत्थितोऽद्राक्षी-द्भासुरं स सुरं पुरः ॥८६॥ तमुवाच सुरस्तुष्ट-स्त्वं कृथा मा स्म विस्मयम् । शृणु शक्रः सुधास्थः, पितृभक्तिं तवाऽस्तवीत् ॥८७॥ तद्देवेन मयाऽभ्येत्य, मायया त्वं परीक्षितः । तदस्तु भद्र ! भद्रं ते, सह ताताय तायिने ॥४८॥ चक्रे देवगुरुपास्ति-रिहामुत्र च या त्वया । पूज्यभक्तिः शमः सत्त्वं, धनं दानं च तत्फलम् ॥८९ ॥ यस्या देवे गुरौ पित्रो-भक्तिरप्रतिमा तव । पुण्याक्षयनिधेस्तस्य, दास्यते तव किं मया ? ॥१०॥ तथापि पूर्णकोशोऽस्तु, स्वस्तिमत्यस्त्वसौ प्रजा । निरीतिस्तव देशोऽस्तु, धर्मबुद्धिः प्रवर्त्तताम् ॥११॥ इति दत्त्वा वरं तस्मै, सुरः सोऽथ तिरोदधे । कुमारोऽपि समं राज्ञा, मुदितः प्राविशत् पुरीम् ॥१२॥ प्रातश्च नृपतिश्चक्रे, महोत्सवमयीं पुरीम् । देवेषु पूजां दीनेषु, दानं बद्धेषु मोचनम् ॥१३॥ पुरन्दरकुमारोऽपि, क्रमात् प्राप्य नृपश्रियम् । चारित्रश्रियमासाद्य, लप्स्यते शाश्वतीं श्रियम् ॥१४॥ इत्थं पुरन्दरकुमारयशः प्रसूनै-रामोदमानमनसः सुजनानवेक्ष्य । सन्तः सितांशुकरसोदरभक्तिभाजः, पूज्येषु पूजनमनुत्तरमाचरन्तु ॥९५ ।।
इति मलधारिशिष्य-श्रीनरचन्द्राचार्यविरचिते कथारत्नसागरे पुरन्दरचरितं नाम त्रयोदशस्तरङ्गः॥