________________
तरङ्ग-१३ : पुरन्दरकथा आनन्दमन्दिरे चैवं, गते काले कियत्यपि । देहे दाहो महादेव्याः, कोप्यभूदतिदुःसहः ॥४८॥ असाध्ये कथिते चात्र, वैद्यान् पप्रच्छ पार्थिवः । तथाप्यौपयिकं ब्रूत, तेऽवदन् श्रूयतां प्रभो! ॥४९॥ अदूरे चास्ति सर्वर्तु-फलपुष्पाकुलद्रुमम् ।। जयन्ताख्येन यक्षेणा-ऽध्यास्तमध्यं महावनम् ॥५०॥ तदन्तर्दीर्घिकोद्भूतै-रम्भोजैः प्रस्तरे कृते । देवी स्वपिति चेद्दाह-स्ततः शाम्यति नाऽन्यथा ॥५१॥ एतच्च दुर्घटं देव ! यतस्तस्मात् तृणाद्यपि । यः कश्चिदुद्धरेत्तस्य, न स्याद् व्यावर्तनं पुनः ॥५२॥ ततो विषण्णे क्षोणीशे, निष्प्रत्याशे परिच्छदे । कुमारः कथमप्येनां, गमयामासिवान्निशाम् ॥५३॥ एकाकी प्रातरुत्थाय, केनाप्यनुपलक्षितः । सपूजापटलोदस्त-हस्तस्तत्काननं ययौ ॥५४॥ बहिर्मित्रमवस्थाप्य, शङ्कानिर्मुक्तमानसः । पूजापटलमादाय, स्वयं तन्मध्यमाविशत् ॥५५ ।। जयन्तयक्षमभ्यर्च्य, स्मरन् देवान् गुरुनपि । दीर्घिकायाः सरोजानि, गृहीत्वा बहिरर्पयत् ॥५६॥ तगिरा च सुहत्तानि, गृहीत्वाऽऽख्याय भूभुजः । तत्कृते प्रस्तरे देवी, विद्यादेशादसूषुपत् ॥५७ ॥ तत् ज्ञात्वा क्षितिपः शोकात्, तामुपेक्ष्य क्षणादपि । कुमारदुरिताशङ्की, जगाम जवनो वनम् ॥५८ ॥ तत्र च प्रविशन् यावत्, परिवारेण वार्यते । तावत् सानन्दमभ्येत्य, कुमारेण नमस्कृतः ॥५९॥
११८
कथारत्नसागरे तमाऽऽलिङ्ग्य नृपोऽवादी-द्दिष्ट्या द्रष्टोऽसि जीवितः । तद् वत्स! शंस नः सर्वं, किमेतद् भवतोऽद्भुतम् ॥६०॥ सोऽवादीदिह ताताऽहं, समर्प्य कमलान् व्रजन् । उक्तो यक्षेण साक्षेपं, भ्रकृटीभङ्गभीषणम् ॥६१॥ निजप्राणान् पणीकृत्य, पद्मानुच्चिन्वता समम् । ममाद्य विस्मयक्रोध-प्रबोधो विदधे त्वया ॥६२॥ निर्विमर्श महोत्साह! साहसं किमिदं कृतम् ? । तत्तथ्यं कथयेत्युक्ते, तेन नत्वाऽहमब्रुवम् ॥६३ ॥ असार्थप्रार्थनं तीर्थ-मदेहद्रोहणं तपः । अनम्भः सम्भ्रमस्थानं, मातश्चरणचर्चनम् ॥६४॥ यदेकदा कृतं मात्रा, कृपापात्राय सूनवे । तत्तस्याः क्रियते तेन, किं समग्रेण जन्मना ? ॥६५॥ मुधा यियासुभिः प्राणै-जननीजीवितं मया । तदेतदर्जितं तावत्, त्वं कुरुष्व समीहितम् ॥६६॥ इत्युक्ते तेन तुष्टेन, जीवितं रत्नमालिका । फलपुष्पाद्युपादानं, प्रसादे विदधे मयि ॥६७॥ तद्रत्नमालापुष्पादीन्, गृहीत्वाऽभ्येत्य भूपतिः । अप्रीणयन् प्रियां सुस्थां, तैश्च सूनोश्च विक्रमैः ॥६८॥ महोत्सवमथाऽऽदिक्षत्, पुर्यामपि नरेश्वरः । देवांश्चाऽपूपुजत् पुत्र-सुचरित्रपवित्रितः ॥६९॥ रजन्यामन्यदा सौधे, सुखसुप्ते पुरन्दरे । शिश्रये श्रवणं दूराद्, वनितारुदितध्वनिः ॥७०।। कृपालुः सोऽथ निर्गत्य, पुरीपरिसरे गतः । दिव्याम्बरधरां नारी, भूरिशोकां व्यलोकयत् ॥१॥