________________
१२१
१२२
कथारत्नसागरे
तरङ्ग-१४ : परद्रोहत्यागे धनचरित्रम्
परद्रोहत्यागे धनचरित्रम् तरङ्ग-१४ यस्य शश्वत् परद्रोह-परिहार-परं मनः । वश्यास्तस्य धनस्येव, कल्याः कल्याणसम्पदः ॥१॥ यस्तु मोहात् परद्रोहं, कुरुते दुरितेरितः । स चण्ड इव दुर्बुद्धि-र्जायते विपदः पदम् ॥२॥ अस्ति स्वस्तिमती नाम, नगरी श्रीगरीयसी । चन्द्रचूडनृपः स्फूर्ज-तेज:सम्भारभासुरः ॥३॥ तस्यामासीद् धनो नाम, गुणग्रामनिकेतनम् । कुलोचितकलाभ्यास-श्रेष्ठः श्रेष्ठितनूद्भवः ॥४॥ कपटैकपटुस्तस्य, वयस्यश्चण्ड इत्यभूत् । अन्तर्दुष्टो बहि:शिष्ट-स्तृणच्छन्न इवाऽवटः ॥५॥ मित्रैरनुसृतो द्रष्टुं, वसन्तोत्सवमन्यदा । पुरीपरिसराऽऽरामं, काममूर्त्तिर्द्धनो ययौ ॥६॥ कन्दर्पायतने तत्र, स्फीतसङ्गीतशीतले । क्रीडन्तं धनमालोक्य, विपश्चित् कश्चिदूचिवान् ॥७॥ रूप-यौवन-सौभाग्य-भोग-त्यागादयो गुणाः । विहायैनं धनं धन्य-मन्यं न खलु संश्रिताः ॥८॥ तदाकाब्रवीत्कोऽपि, कोपनः किं त्वयोच्यते ? | प्रशस्यः सवयस्योऽपि, किमयं निरुपार्जनः ? ॥९॥ स्वभुजोपार्जितैर्वित्तै-र्धिनोति वसुधां नयः । किं नाम शस्यते तस्य, पितृवैभववैरिणः ! ॥१०॥ गुरुणां विद्यया विद्वान्, पितृवित्तेन वित्तवान् । शूरः सहायशौर्येण, नन्दिष्यति कियच्चिरम् ? ॥११॥
इत्यालापं तयोः श्रुत्वा, गत्वाऽथ सदनं धनः । मन्त्रयामास मित्रेण, द्रविणोपार्जनाविधौ ॥१२॥ वणिक्कलां च पुण्यं च, परीक्षितुमथात्मनः । पितरावप्यऽनापृच्छय, गृहीतोचितशम्बलः ॥१३॥ अर्द्धरात्रे विनिर्गत्य, चण्डेन सहितस्ततः । स्तोकैरेव दिनैर्देश-समं देशं विवेश सः ॥१४॥ (युग्मम्) हिरण्यनगरोद्याने, विनीताध्वपरिश्रमः । निशम्य मधुरं ध्वानं, ययौ तदनुसारतः ॥१५॥ सोममप्यधिभास्वन्तं, तपस्तेजोभिरुज्वलैः । एकं मुनीन्द्रमद्राक्षी-च्चूतद्रुमतलस्थितम् ॥१६॥ प्रणम्याथ समासीने, समासन्नावनौ धने । धर्मोपदेशदानेन, ततान स्वागतं मुनिः ॥१७॥ भवे सुदुर्लभं लब्ध्वा, मानुष्यमविवेकिभिः । हेयोपादेयविज्ञान-वन्ध्यैरहह हार्यते ! ॥१८॥ हातव्यः सर्वथा द्रोह-स्तत्परस्य विवेकिभिः । यतो भूतद्रुहां श्रेयः-प्रसूते कापि न क्रिया ॥१९॥ परद्रोहेण वाञ्छन्ति, येऽतितुच्छधियः श्रियम् । तेऽर्थयन्ते महामोहोद्गारग्रासेन जीवितुम् ॥२०॥ परोपकारमेवैक-मुपादेयं पुनर्विदुः । यदस्य धर्मरूपत्वे, विवदन्ते न वादिनः ॥२१॥ परद्रोहेष्वशक्तस्य, पराऽवर्णेष्वजानतः । परोपकारिणः पुंसो, नैव दैवमपि प्रभुः ॥२२॥ उपकुर्वन्ति ये यत्ना-दपकारपरेष्वपि । भवेत्तेषामऽनर्थोऽपि, स्वार्थसिद्धिनिबन्धनम् ॥२३॥