________________
तरङ्ग-९ : शारदासौहार्दम्
विदधे श्रेष्ठिनस्तस्य यशः शशिसमं ततः । शश्वज्योत्स्नीमयानीव, भुवनानि समन्ततः ॥ २०२ ॥ अन्यदा यामिनीशेषे, सुबुद्धिं बोधशालिनम् । अभ्यागत्य कुतोऽप्येको, विवेकः स्फुटमब्रवीत् ॥२०३॥ श्रेष्ठिन् ! श्रेष्ठतमप्रज्ञ!, केनाप्यशमितः पुरा । मन्त्रिपुत्र्योर्विरोधोऽयं, साधु प्रशमितस्त्वया ॥ २०४ ॥ आकालमेतयोः किन्तु, विरोधः सैष वास्तवः । त्वत्कृतं न तु सौहार्द - मिदमौपाधिकं पुनः ॥ २०५ ॥ सिकताया इवाबन्धः, श्वपुच्छस्येव वाऽऽर्जवम् । सलिलस्येव चोष्णत्वं तत् तयोः स्यात् कियच्चिरम्
तथा मन्त्रिप्रसादेऽपि प्रमादं भद्र! मा कृथाः । प्रायः प्रभुप्रसादो हि, मेघच्छायासहोदरः ॥२०७॥ किञ्च दक्षा: परोलक्षाः सन्ति चिन्तयितुं परान् । आत्मानं चिन्तयेद्यस्तु सोऽयमेकोऽपि दुर्लभः ॥२०८ ॥ प्रमादनिद्रया शेषे निशाशेषेऽपि किं पुनः ।
७९
॥ २०६ ॥ (युग्मम्)
ततः सुबुद्धे ! सम्बुध्य स्वरूपं विनिरूपय ॥ २०९ ॥ कोऽहं क्वास्मि कुतो वास्मि, क्व गन्तास्मि करोमि किम् ? । मया वा तानि रत्नानि, कान्यादेयानि कानि च ? ॥२१० ॥ का च शक्तिरशक्तिश्च, कश्चाऽऽयः कश्च मे व्ययः ? । के च मे सेवकाः सन्ति, किञ्च तेषां विचेष्टितम् ? ॥२११ ॥ मित्राणि कानि मे सन्ति प्रतिपक्षाश्च के मम ? | किमस्ति परिहर्त्तव्यं कर्त्तव्यं वा च किं मम ? ॥ २१२ ॥
कथारत्नसागरे
८०
तदेते सन्ति ये नित्य-मत्यद्भुतपराक्रमाः । आसन्नसेवकाः प्रायो, योधाः क्रोधादयस्तव ॥ २९३ ॥ आबाल्यात् वर्धितास्ते च क्वापि कर्मणि कर्मठाः । परमत्यन्तदुर्वृत्ताः, परमार्थेन वैरिणः ॥२१४ ॥ यदमी प्रशमादीनां नित्यं तव हितैषिणाम् । धावन्त्यौद्धत्यवातुला, मूलादुच्छेदमिच्छवः ॥ २१५ ॥ क्रोधो हि प्रशमं मानो मार्द्दवं दम्भ आर्जवम् । लोभः सन्तोषमेतेषु हन्तुमुत्तिष्ठतेतरम् ॥२१६ ॥ किञ्चैषां दुर्णयैर्दु:खं, गुप्तौ तव भविष्यति । कल्पद्रुरूपो भूपोऽपि प्रसादं न करिष्यति ॥२१७ ॥ तस्मादेतान् लघूकृत्य, बहिर्वृत्त्याऽनुवृत्य च । अन्तरङ्गतया प्रीतिः कर्त्तव्या प्रशमादिषु ॥ २९८ ॥ अन्यच्च मुखमाधुर्यान् मित्रतादर्शिनो बहिः । शब्दरूपरसस्पर्श-गन्धा इत्यभिधानतः ॥ २१९ ॥ पञ्चापि वञ्चका ह्येते दुष्टाः किम्पाकसन्निभाः । तदेतेपि बहिर्वृत्त्या, द्रष्टव्या न तु तत्त्वतः ॥ २२० ॥ यदेते हन्त विश्वास्य त्वामनेकमुखैः सुखैः । मां विना भवतो गेहात् सुभोगां हर्त्तुमिच्छवः ॥२२१ ॥ अस्त्येषां किमपि क्वापि पुरापि हि सहानया । सुलोचनाऽऽनुसङ्गेन, तारामेलकमेचकम् ॥२२२॥ ततो हतायामेतस्या-ममीभिर्मृगधूर्त्तकैः ।
लोकेषु लाघवं भावि भवतोऽपि ममापि च ॥ २२३ ॥ किञ्चान्येऽप्यतिदुर्वाराः, शाश्वतास्तव शत्रवः । व्याधि-वार्धक दौर्गत्य- मृत्युप्रभृतिनामभिः ॥ २२४ ॥