________________
७७
७८
तरङ्ग-९ : शारदासौहार्दम् अश्वकैश्च स्वकीभूतैः, परैः परिचितेतरैः । आपादान्मस्तकं यावद्, रक्षितासि प्रतिक्षणम् ॥१७९ ।।
(चतुर्भिः कलापकम्) ततश्च कुपितेनेव, तातेनापि तनूकृते । परस्परविरोधेन, युवां याते च शोच्यताम् ॥१८०॥ अन्वय-व्यतिरेकाभ्यां, तद्विवेकस्य वैभवम् । युवाभ्यामित्थमास्थाय, तावति प्रतिपद्यताम् ॥१८१॥ ततः स्ववेश्मनीवास्मिन्, वसन्तीभ्यां गृहे मम । प्रसन्नस्य विवेकस्या-ऽनुग्रहः परिगृह्यताम् ॥१८२॥ तदनुग्रहसम्भूत-प्रीतिस्फीतेन चेतसा । अन्योन्यं बुद्धिमाधातुं, यतेथामथ सन्ततम् ॥१८३॥ तत्र वेदत्रयं साक्षात्, तत्रैव पुरुषत्रयम् । भवत्यौ च विवेकश्च, यत्र रत्नत्रयं नवम् ॥१८४ ॥ अथ रत्नत्रये लब्धे, लोकद्वयसुखप्रदे । भावी सकामः को नाम, कामगव्यादिषु त्रिषु ॥१८५ ॥ रत्नत्रितयसंयोगे, जातेऽस्मिन् विश्वपावने । मलैर्मलिनितः कश्चित्, त्रिवेणी सङ्गमं गमी ॥१८६ ॥ तत् तातस्य भवत्योश्च, लोकस्य सकलस्य च । असौ रत्नत्रयी योगः, शश्वद् भूयाद् विभूतये ॥१८७॥ युक्तिसङ्गतमित्येव-मुक्ते सति सुबुद्धिना । तथेति प्रतिपेदाते, तदा ते विशदाशये ॥१८८॥ ऊचतुश्चावयोरद्य, प्रसादः फलितः पितुः । गुणावदात ! यातोऽसि, यत्त्वं लोचनगोचरम् ॥१८९॥
कथारत्नसागरे वहन्ति बहवो जिह्वां, प्रह्वां निष्ठ्यूतसूतये । स्वच्छत्वत्सदृशः कश्चित्, धत्ते परविभूतये ॥१९॥ ततस्ते श्रेष्ठिनो वाचा, विवेकेन पुरस्कृते । हित्वा विरोधमन्योन्यं, वृद्धिमादधतुर्मुदा ॥१९॥ तथाहि नित्यमातेने, सुभोगा भक्तिपूर्वकम् । सुलोचनाया मान्येषु, मुनिवृन्देषु सत्क्रियाम् ॥१९२ ॥ परेष्वपि चकाराऽसौ, संविभागं विभूतिभिः । तदीयवचनोद्भूत-भावनापावनात्मसु ॥१९३ ॥ भगिन्यादेशमासाद्य, हर्षसोत्कर्षमानसा । सच्चरित्रमुपासीना, दीनाभ्युद्धरणं व्यधात् ॥१९४ ॥ किमन्यत् तस्य सर्वस्य, गौरवं विततान सा । यः सुलोचनया दृष्टः, स्फीतप्रीतिस्पृशा दृशा ॥१९५ ॥ सुलोचनाप्यविश्रान्तं, सुभोगां भक्तिशालिनीम् । अथैरभ्यर्चयाञ्चक्रे, सुवर्णपदकोज्वलैः ॥१९६ ।। तमस्तोमहताऽऽलोका-मपथप्रस्थितामिमाम् । सम्यग्ज्ञानप्रदीपेन, स्थापयामास सत्पथे ॥१९७ ।। तत्त्वदृष्ट्या निवत्यैतां, लोभक्षोभादिदूषणात् । नित्यं नियोजयामास, पितुराराधनाविधौ ॥१९८॥ किं वास्याः सन्तताभ्यस्तं, भण्डभट्टादिभिः कृतम् । विमर्शसङ्गमद्वारा, वारयामास विप्लवम् ॥१९९ ॥ वृत्तान्तं चैनमामकर्ण्य, कर्णामृतरसायनम् । मेने धर्मोऽधर्मर्णत्वं, सुबुद्धेरूपकारिणः ॥२०॥ चिन्तितानन्तरं चास्य कार्यजातमनारतम् । निर्बाधं साधयाञ्चक्रे, स कृतज्ञशिरोमणिः ॥२०१॥