________________
७६
कथारत्नसागरे
तरङ्ग-९ : शारदासौहार्दम् ततस्त्वया सतां मान्यं, मानमुन्मुच्य दूरतः । सेव्या सुभोगा सम्भोग-सौरभोच्छृङखलाः खलाः ॥१५६॥ तत्र चन्दनमालावत्, शुष्यन्त्यां द्वारतोरणे । भवत्यास्ते भविष्यन्ति, भावुकाः परिभावुकाः ॥१५७ ॥ सोदरायां विरुद्धायां, चास्यां तव पदे पदे । गृहे वाऽपि बहिर्वापि, भावी परिभवः परम् ॥१५८ ॥ निजामपि च सौदर्या-मावर्जयितुमक्षमा । कलानामपि सर्वासां, महिमानं हनिष्यसि ॥१५९ ॥ एतया च तवोद्भूत-भ्रकुटीभङ्गमीक्षितः ।। कुण्ठीभविष्यति स्रस्त-दानव्यतिकरः करः ॥१६० ॥ एतस्यां च विरोधिन्यां, मान्यायां महतामपि । न विना वनवासेन, सुखेन स्थास्यसि क्वचित् ॥१६१ ॥ प्रदत्ते वाऽनया शापे, ससन्तापेन चेतसा । वचनं तापनं भावि, तावकं पावकादपि ॥१६२ ॥ विरोध्यैनामनात्मज्ञे! तमप्यत्यन्तवत्सलम् । लङ्घनादिमहाकष्टै-स्तातमाराधयिष्यसि ॥१६३ ॥ किञ्चाऽन्यद् भवती त्यक्ता, सर्वकर्मीणयाऽनया । एकाकिनी निवासाय, क्व स्थानमपि लप्स्यते ? ॥१६४॥ विज्ञाय विज्ञया तस्माद्, वैरं वैरङ्गिकं हृदि । प्रीतिः कार्या कनीयस्या-मस्यामानन्दमन्दिरम् ॥१६५ ॥ अस्यां च वशवर्त्तिन्यां, दर्शनेन सुलोचने! । विधास्यसि न कस्य त्वं, दृशोः पीयूषवर्षणम् ॥१६६ ॥ उन्मीलिष्यति सौभाग्यं, भाग्यमत्यद्भुतं तव । मोदयिष्यसि विश्वं च, यश:कुसुमसौरभैः ॥१६७॥
ततश्च युवयोः सम्यग-भिन्नीभूतचेतसोः । प्रमादं प्रति सोत्सेको, विवेकोऽपि भविष्यति ॥१६८ ॥ तस्मिंश्च सकुटुम्बेऽपि, प्रसादं समुपेयुषि । युवयोर्वृद्धिमाधातुं, तातोऽपि प्रयतिष्यते ॥१६९ ॥ अवसन्ने पुनस्तस्मिन्, याते तातेऽप्युदासताम् । यत् किञ्चिधुवयोर्जातं, तदाख्यातुं न तु स्वयम् ॥१७० ।। तथापि हि विवेकेन, रहिता त्वं सुलोचने ! । यद् व्यधाः कोविदम्मन्या, तदिदं ते निगद्यते ॥१७१ ॥ देवबुद्धिमदेवेषु, वस्तुबुद्धिमवस्तुषु । पात्रबुद्धिमपात्रेषु, बन्धुबुद्धिमबन्धुषु ॥१७२ ॥ पितुश्च प्रतिकूलायां, हिंसायां तत्त्ववासनाम् । प्रवर्त्तितवती लोके, विपर्यस्तेन चेतसा ॥१७३ ।। महाव्यसनसन्तान-यादसां दाहसागरं । अर्थशास्त्रसरित् पूरैः, 'सागरोऽप्येष पोषितः ॥१७४ ।। सुभोगे यत्तवाप्यासीद् विवेकविकलस्थिते । तदुक्तं त्वद्भगिन्यापि, तथापि ननु कथ्यते ॥१७५ ॥ मिथ्याभिमानिनी स्वस्य, पितुर्विमुखतां गता । तस्य प्रसादपात्रेषु, सेवकेष्वपि दुर्मुखा ॥१७६ ।। धूतैश्च वञ्चिताऽसि त्वं, डौम्बैश्च मलिनीकृता । वार्त्तिकैश्चानले भ्रष्टा, कृपणैश्च कदर्थिता ॥१७७॥ विप्लवैः प्लाविता चासि, भण्डभट्टविटादिभिः । रजनीचरदेश्याभि-वैश्याभिश्च विगोपिता ॥१७८ ॥
१.
सागरं चाप्यपोषय: - K॥