________________
तरङ्ग-९ : शारदासौहार्दम्
त्वदीयस्याऽन्वयस्यापि विप्रियं कृतपूर्विणः ।
तत्रापि बाधमा धातु मुद्धताः सन्ति सन्ततम् ॥ २२५ ॥ किन्तु सम्प्रति धर्मेण निर्मितानुग्रहे त्वयि । अदर्शयन्तः स्वं रूपं समयं गमयन्त्यमी ॥२२६॥ तत्कदापि प्रमादेन, प्रसुप्ते त्वयि सौप्तिकम् । निपतिष्यत्यहो तेषां तदिदं मा स्म विस्मरः ॥ २२७ ॥ किं मन्त्रिणः प्रसादेन, किं पुत्रीभ्यां मयापि किम् । आत्मनः शात्रवाऽऽतङ्कं यदि नोच्छेदयिष्यसि ॥ २२८ ॥ ततोऽनयावदद्यापि भवतः प्रभवन्त्यमी । यावत् त्वदनुवृत्त्या च वर्त्तन्ते करणान्यपि ॥ २२९ ॥ यावद् विज्ञजनेनापि पुरुषत्वेन मन्यसे । एषोऽस्म्यनन्यगामी च यावत् तव वशंवदः ॥२३० ॥ इमे धर्मात्मने स्निग्धे, निर्विरोधे ममानुगे । यावच्च जनकाऽऽदेशाद् वसतस्तव वेश्मनि ॥ २३९ ॥ धत्ते यावदमात्योऽपि त्वय्येतामधमर्णताम् । दत्ते च दर्शनं यावत्, पावनं परमेश्वरः ॥ २३२ ॥ तावदेष त्वया नित्यं पूज्यतां भुवनप्रभुः । लोकस्तत्सेवकश्चायं तदीयाऽऽज्ञावतंसिनः ॥ २३३ ॥ पुरोऽप्यतुल्यवात्सल्यः, सचिवोऽपि विशेषतः । उपचारैः समाराध्यो, दानप्रभृतिभिस्त्वया ॥ २३४ ॥ आराध्या विधिवच्चास्य, धर्मस्य जननी दया 1 यज्जीवितव्यमेतस्य सर्वस्वमियमेव च ॥ २३५ ॥ दर्शनानां च सर्वेषामप्यस्या माननीयता । अपि विश्वप्रभुश्चास्याः स्तौति स्तोकतरान् गुणान् ॥ २३६ ॥
८१
८२
कथारत्नसागरे
श्रद्धाभिधा प्रिया चास्य, पुरः कार्या क्रियाविधौ । मन्त्रीकृतोपचारोऽपि नान्यथा यत्प्रसीदति ॥ २३७ ॥ अन्योन्यस्य च सौहार्द - व्यापारः सुतयोस्तयोः । विधेयो विदितस्तस्या, येन मन्त्री प्रमोदते ॥२३८ ॥ ततश्च सुप्रसन्नस्य प्राप्याज्ञा भुवनप्रभोः । मन्त्रिणश्चाधमर्णस्य, प्रमोदामोदहेतवे ॥२३९ ॥ कृत्याकृत्यव्यवस्थायाः, कारणं वैरिवारणम् । शासनं भुवनेशस्य कुरु पत्रेषु लेखितम् ॥ २४० ॥ ( युग्मम् ) लिखितांस्तांश्च सर्वत्र, पत्राणां सञ्चयानथ । वाचयित्वा विपश्चिद्धि-स्तदाज्ञां ख्यापय क्षितौ ॥२४१ ॥ तदेवं कुर्वतः सर्वे भवतो भयभङ्गुराः । यास्यन्ति वैरिणो दूरा, दूरीकृतदिगन्तराः ॥२४२ ॥ साक्षादेवं विवेकेन, सुबुद्धिः स प्रबोधितः । विध्वस्तध्वान्तमात्मानं कृतकृत्यममन्यत ॥ २४३ ॥ अनेन व्यञ्जिते चाय मेतस्मिन्नेव सत्पथे । सञ्चचार सदाचार-भारोद्धारधुरन्धरः ॥२४४ ॥ ततः प्रसादाद् भूपस्य सचिवस्य च वैभवात् । मन्त्रिपुत्र्याश्च माहात्म्याद्विवेकस्य च सन्निधेः ॥ २४५ ॥ सुबुद्धिः सञ्चरन्नुच्चै रुच्चरद्विक्रमः क्रमात् । दुर्वारानपि तान् वैरि-वीरवारानवारयत् ॥२४६ ॥ ( युग्मम् ) ततः समस्तपौरेषु, लब्ध्वा लोकोत्तरं पदम् । प्रतिष्ठां शाश्वतीं प्राप, पुरुषेषु परेष्वपि ॥ २४७ ॥ सुबुद्धेस्तदिदं नाथ! कथितं ते कथानकम् । ततश्चाऽहर्द्दिवं देव! भवता हृदि धार्यताम् ॥२४८ ॥