________________
४८
तरङ्ग-७ : सुलसकथा श्रेष्ठी व्यभावयत् यादृक्, गरलस्यामृतस्य च । तमसस्तेजसश्चापि, निम्बस्याऽऽम्रस्य चान्तरम् ॥२५॥ ताहगेवाधुना दृष्ट, सुतस्य सुलसस्य च । ज्ञाने यस्य विपर्यास-स्तदयं युज्यतेऽधुना ॥२६॥ गौरवाय गुणा एव, न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्प-मङ्गजस्त्यज्यते मलः ॥२७॥ इति निश्चित्य तां रात्रिं, स तत्रैव वनान्तरे । निनाय यामिकीभावा-नलसे सुलसे सति ॥२८॥ प्रातश्च विचरन् स्वैरं, पारेनीरं पयोनिधेः । तरङ्गैस्तीरमानीतं, प्रमीतं नरमैक्षत ॥२९॥ नूनं विभिन्नयानोऽसौ, कश्चिदित्यवगत्य च । स पश्यन् दृष्टवांस्तस्य, रक्तधारां कटीतटे ॥३०॥ किमेतदिति सामीप्य-माप्य यावद्विलोकते । तावद्दीप्रप्रभाजाल-प्रदत्तरुधिरभ्रमम् ॥३१॥ समालोक्य मणिश्रेणि-मादाय च सविस्मयः । परिधानाञ्चले बद्ध्वा, निजोत्सङ्गे न्यगृहत ॥३२ ॥युग्मम् । ततः क्रमादरण्यानी, तीर्वा, मूर्तामिवापदाम् । त्रयोऽपि स्वपुरीं प्रापु-देहिनीमिव सम्पदम् ॥३३॥ अन्येधुरथ सन्मान्य, सुहृद्बन्धुपुराग्रिमान् । यथावत् कथयामास, श्रेष्ठी वृतान्तमेतयोः ॥३४॥ चक्रे च तैरनुज्ञातो, भागमात्रपतिं सुतम् । सुलसं तु गृहाधीशं, स कृतज्ञशिरोमणिः ॥३५॥ स्वयं नित्योपकार-मारार्द्ध धर्ममुत्सुकः । दत्त्वा दानानि पूज्यांश्च, सम्पूज्य व्रतमाददे ॥३६॥ सुलसोऽपि समालम्ब्य, प्रलम्बं गुणसञ्चयम् । आरुरोह स तामुच्चै-श्चित्रमत्तमतङ्गजम् ॥३७॥
कथारत्नसागरे अन्यदा व्यवहारेण, प्रस्थितो दक्षिणापथम् । स न्यवीशदावासान्, क्वचित् गिरिसरित्तटे ॥३८॥ भोजनावसरे यावत्, स पश्यन्नतिथेः पथम् । तावत्कृतचतुर्मासोपवासं वासवार्चितम् ॥३९॥ प्रशान्तमूर्तिस्तेजोभिः, प्रज्वलन्तं तपोमयः । पारणार्थमुपायातं, मुनिमेकं व्यलोकयत् ॥४० युग्मम् । ससम्भ्रममथोत्थाय, सफुल्लनयनाम्बुजः । प्रत्युद्गम्य प्रणम्यापि, मुनि सानन्दमब्रवीत् ॥४१॥ क्व दीनः पीनकौपीनः ?, क्व च रत्नमयो निधिः ? | क्व मारवपथे पान्थः ?, क्व चोज्ज्वलजलं सर: ? ॥४२॥ क्व जराजर्जरः प्राणी ?, क्व च दिव्यं रसायनम् । प्रमोदमेदुरः क्वाहं ?, क्व चायं तव सङ्गमः ? ॥४३॥ पवित्रं त्वादृशं क्षेत्रं, देयं बीजं तथोचितम् । विशुद्धं भावना चाम्भः, समयश्चायमीदृशः ॥४४॥ लोकोत्तरफलस्यास्य, कर्षणस्य ममाद्भता । सामग्रीयं प्रसन्नेन, विदधे विधिनाऽधुना ॥४५॥ इति ब्रुवाणो हर्षाश्रु-पूरदूरीभवन्मलः । स मुनिं कारयामास, पारणं पुण्यकारणम् ॥४६॥ 'आनन्ददुन्दुभिध्वान-धन्यो जयजयध्वनिः । तदानीं स्वर्णवृष्टिश्च, रोदःपुटमपूरयत् ॥४७॥ वाञ्छितं वृणु वत्सेति, प्रत्यक्षं वनदेवता । वदन्ती जगदे तेन, वाञ्छितं किमतः परम् ॥४८॥ अद्य चिन्तामणिः पाणा-वद्य कल्पद्रमोऽङ्गणे । अद्य कामगवी गेहे, देहेऽद्य मम सम्पदः ॥४९॥ १. आनद" v ||