________________
५०
तरङ्ग-७ : सुलसकथा अद्याहं धन्यजन्मास्मि, सफलं मेऽद्य जीवितम् । अद्य मे वैभवं श्लाघ्यं, प्रसादेनामुना मुनेः ॥५०॥ इति तस्य ब्रुवाणस्य, निरीहत्वेन विस्मिताः । मुद्रारत्नं बलादेव, देवता निदधेऽङ्गुलौ ॥५१॥ अस्य माहात्म्यमाख्याय, विषापहरणादिकम् । श्रुत्वा च तस्य भाग्यानि, देवताऽसौ तिरोभवत् ॥५२॥ सुलसोऽथ मुनौ याते, तद्गुणस्तवनच्छलात् । आनन्दसंविभागेन, सभां सम्भावयन्निव ॥५३॥ तद्दत्तशेषं पीयूष-निर्विशेषं विभावयन् । भुक्त्वा क्षणं च विश्रम्य, जगाम मुनिसन्निधौ ॥५४॥ प्रणम्योचितभूपीठ-प्रतिष्ठे सुलसे सति । दिदेश स मुनिर्धर्म, सुधारसकिरा गिरा ॥५५॥ संसारसागरस्यान्तः, प्राणिभिर्व्यवहारिभिः । रत्नत्रयमुपादेयं, हेयास्तु विषयोपलाः ॥५६॥ देवतत्त्वं गुरुतत्त्वं, धर्मतत्त्वं च तत् त्रयम् । परीक्ष्य निर्मलं ग्राह्यं, दौर्गत्योच्छित्तिमिच्छभिः ॥५७ ॥ मुक्तोऽष्टादशभिदोषै-र्देवस्त्रिभुवनार्चितः । अविसंवादवादी च, निरस्तवृजिनो जिनः ॥५८॥ परोपकर्ता सिद्धान्त-तत्त्वज्ञः संयमी शमी । दत्तदुःखक्षयोपायः, कषायविजयी गुरुः ॥५९॥ दशरूपधरो धर्मः, कर्मधर्मघनाघनः ।। संयमप्रमुखः सर्व-जन्तुजातदयामयः ॥६०॥ इति रत्नत्रयीमेतां, ततः स्वीकृत्य कृत्यवित् । नमस्कृत्य मुनिं चाथ, स प्रतस्थे स्थिराशयः ॥६१॥
कथारत्नसागरे यस्यां दिशि भवेद् भूम्ना, भानुमानपि निर्वसुः । ततोऽपि वसुसम्भारं, बभार सुलसः पुनः ॥६२ ॥ अथाऽसौ सम्भृतः पण्यै-र्यशोभिर्विभवैरपि । कृतार्थः सुबहोः काला-दाजगाम निजां पुरीम् ॥६३॥ अथ स्वजनसन्दोह-सङ्गमोत्सुकमानसः । समभूमितले यावदावासान् दापयत्यसौ ॥६४॥ पुरीपरिसरे तावदमन्दाक्रन्दमन्दिरैः । परीतं परितोऽस्तोक-शोकैर्लोकैश्चयुताश्रुभिः ॥६५॥ उच्चरच्चारणध्वान-वाचालितदिगन्तरम् । याचकैर्जनितोत्ताल-लोलकोलाहलाकुलम् ॥६६॥ वृद्धाभिः परिवारेण-वारिताभिरपि स्वयम् । लुञ्चन्तीभिर्निजान् केशान्, काशपुष्पोपहासिनः ॥६७ ॥ आबद्धनेत्रपट्टाभिरपि प्रोत्फुल्लदृष्टिभिः । अश्वारूढाभिरन्वीतं, तरूणीभिश्च निर्भरम् ॥६८ ॥ सितक्षौमपटच्छन्नं, पत्रपुष्पांशुकार्चितम् । शबमेकं समायात-मग्रतः स निरैक्षत ॥६९ ॥(कुलकम्) सम्भ्रान्तः सोऽथ पप्रच्छ, किमेतदिति कञ्चन । ऊचे तेन च किं वच्मि, हत दैवस्य चेष्टितम् ॥७० ॥ अयमेकः सुतो राज्ञः, क्षमाभरधुरन्धरः । इतस्तृतीये दिवसे, भवनोपवने गतः ॥७१ ॥ पुष्पाणि पाणिना चिन्वन्, तरुकोटरचारिणा । दष्टो दुष्टाहिना कष्ट-मलच्या भवितव्यता ॥७२॥ राज्यस्यार्द्ध पणीकृत्य, पटहोद्धोषपूर्वकम् । अथास्य 'स्फारयामास, वसुधेशः प्रतिक्रियाम् ॥७३॥ १. कार ॥