________________
तरङ्ग-७: सुलसकथा
४५
सुलसकथा तरङ्गः ७
गुणानां विनयादीनां जीयात्तद्वैभवाद्भुतम् । यद्दत्तदोहदौ मर्त्य - जन्मकल्पद्रुमः फली ॥ १ ॥ विनयः स्वामिनो भक्तिः, सुपात्रे दानमुद्यमः । परोपकारकारित्वं, निरीहत्वं कृतज्ञता ॥२॥ गुणाः सप्तापि सोपाना आरोढुं पदमुच्चकैः । सन्तः सुलसवृतान्तः प्रकाशेन वितन्यते ॥३ ॥ अस्ति प्रस्तुतदुर्व्याय - विजया विजयापुरी । वसन्ति धर्मकर्मार्था यत्रान्योन्यमबाधिताः ॥ ४ ॥ आसीत् तत्र कृतारिस्त्री-नेत्राञ्जनतमः शमः । विजयः सुजनाम्भोज-खण्डचण्डरुचिर्नृपः ॥५ ॥ तस्यां च नगरश्रेष्ठः श्रेष्ठी हेमप्रभाभिधः । सुन्दरी गेहिनी तस्य, गेहनीतिरिवाङ्गिनी ॥६॥ पुत्रस्त्रिनयनो नाम, कामं यौवनदुर्मदः । भक्तः शक्तो विविक्तश्च, सुलसस्तु निदेशकृत् ॥७॥ कदाचिदथ सुन्दर्यां, भारमारोप्य वेश्मनः । सह त्रिनयनेनाऽसौ भृत्यैश्च सुलसादिभिः ॥८ ॥ प्रभूतं भाण्डमादाय, तत्र देशान्तरोचितम् । इतरैरतिदुष्प्रापामिच्छन् लोकोत्तरां श्रियम् ॥९॥ संयमीव चरित्रेण वहित्रेण महीयसा । भीमं भवमिवाम्भोधिं तरीतुमुपचक्रमे ॥१० ॥[ विशेषकं ] मध्येजलधि बोहित्थे, प्रस्थितेऽथ पुरोभवत् । तापिच्छगुच्छसच्छाय-कायोऽम्भोधरसिन्धुरः ॥११॥ गर्जन्नूर्जस्वलं सोऽपि सकोपतडिदीक्षणः ।
तं पोतं खण्डशश्चक्रे, समीरकरताडनैः ॥ १२ ॥
१. विचिन्त्यताम् । विचन्वताम् - K॥ २. धर्मकामार्था - KII ३. सनीर K
४६
कथारत्नसागरे
1
प्राप्तकफलकः साकं, सुतेन सुलसेन च दिवसैः सप्तभिः श्रेष्ठी, तीरे नीरेशितुर्ययौ ॥ १३ ॥ क्षुत्क्षामकुक्षिरुद्विग्नो, निमग्नः पङ्कसङ्कटे । पुत्रमूचे भुजस्तम्भ - मवष्टम्भं कुरुष्व मे ॥१४ ॥ जगाद कुपितः सोपि, दूरे वृद्ध ! तवोद्धृतिः । बाढं वोढुमिदं नाहं, देहं निजमपि क्षमः ॥१५ ॥ त्वं वृद्ध ! जीविते गृद्धः म्रियमाणः स्वयं ह हा निर्लज्ज ! मज्जत्पङ्कान्त-म मारयितुमिच्छसि ॥१६॥ सुलसेनाप्यसावुक्त-स्तातत्राणकृतेऽब्रवीत् ।
1
अधुना वृद्धवज्जज्ञे, ग्रहिल: किं भवानपि ? ॥ १७ ॥ इत्युक्त्वा त्वरितं याते, सुते श्रेष्ठी व्यचिन्तयत् । अहो माहात्म्यमेतस्य मत्पुत्रस्य दुरात्मनः ॥ १८ ॥
ह हा मूढैर्विभाव्यन्ते तनयाः स्निग्धया धिया । धनदारापहारेण, वैरिणः परमार्थतः ॥ १९ ॥ यः पुनर्विपदां हर्ता, कर्त्ता च सुखसम्पदाम् । न धर्मः स्मर्यतेऽप्येष परमार्थेन बान्धवः ॥ २० ॥ एवं विचिन्तयन् श्रेष्ठी, सुलसेनैत्य पङ्कतः । उद्धृतो विषयासङ्गाद्, विवेकेनैव शुद्धधीः ॥२१॥ स्कन्धेनोद्धृत्य नीत्वा च, ततः सिकतिलामिलाम् । निर्मलं सुलसञ्चक्रे, श्रेष्ठिनं विमलैर्जलैः ॥२२॥ विधायाभ्यङ्गमङ्गेषु नालिकेराम्भसा च सः 1 सम्पादितसुखाह्वान - मङ्गसंवाहनं व्यधात् ॥ २३ ॥ निवेश्य च ततः फुल्लपल्लवस्त्रस्तरोदरे । श्रेष्ठिनं प्रीणयामास, फलैरपि जलैरपि ॥ २४ ॥ निर्लज्जं - KI
१.