________________
तरङ्ग-४ : श्रीदत्तकथा यानि कान्यपि रत्नानि, प्रसूते रत्नसूरसौ । मदीयं मन्दिरं तेषा-मद्वितीयं निकेतनम् ॥११॥ अमूनि त्यागिनां धूर्यो, रोहणो धरणीधरः । कुरुते पीनकौपीन-वाससामपि वेश्मसु ॥१२॥ तद् गत्वा रत्नसर्वस्वममुष्य धरणीभृतः । समानयत येन स्यु-रेकछत्राः श्रियो मम ॥१३॥ तमादेशं विशाम्पत्युः, तीर्थनीरमिवादरात् । शिरसा प्रतिजग्राह, श्रीदत्तः प्रीतमानसः ॥१४॥ दुर्जना यत्नतामुच्चै-विचिन्त्य स्वामिचेतसाम् । सहायव्याजतोऽयाचत्, मित्रसेनं नृपप्रियम् ॥१५॥ नृपस्तं महतां सैन्य-सम्भारेणातिभासुरम् । सहितं मित्रसेनेन, प्राहिणोद्रोहणं प्रति ॥१६॥ अथासौ बहिरावासान्, निवेश्यावश्यकृत्यवित् । सर्व प्रकाशयामास, नृपादेशं गुरोः पुरः ॥१७॥ अतुच्छस्वच्छवात्सल्य-कल्लोलितगिरस्ततः । उपदेशं ददुस्तस्मै, गुरवो गौरवोचितम् ॥१८॥ स्वामिनां च गुरूणां च नादेशः क्लेशभीरुभिः । महिमेवौषधादीनां, विचार्यः कार्यकारिभिः ॥१९॥ व्यालव्यालीढकान्तार-दुर्गमार्गः परं नरैः । प्रभूत-भूतसम्भूति-र्दुरारोहः स रोहणः ॥२०॥ विधातव्यस्ततस्तस्मिन्नप्रमत्तैरुपक्रमः । ध्येयस्त्रिसन्ध्यं विध्वस्त-समस्तवृजिनोजिनः ॥२१॥ दुरन्तदुरितारण्य-प्रज्वलज्ज्वलनोपमा । कर्तव्या हृदये पञ्चपरमेष्ठि-नमस्कृतिः ॥२२॥
२६
कथारत्नसागरे अधमर्णा सदा तेषां, ते पि कल्पद्रुमादयः । जागर्त्ति हृदये येषामेषा पञ्चनमस्कृतिः ॥२३॥ नि:शेषविघ्नसङ्घात-ध्वान्तविध्वंसनक्षमम् । त्रैधं समिधमाधेयं, ब्रह्मचर्यमयं महः ॥२४॥ तपः कर्तव्यमव्यग्रै-बर्बाह्यान्तर्भेदमेदुरं । जगत्त्रयाधिपत्यश्री-वशीकरणकार्मणम् ॥२५॥ औषधानि मुधा यत्र, मन्त्राणामस्वतन्त्रता । मणीनामप्यणीयस्त्वं, तपस्तत्रापि जित्वरम् ॥ २६ ॥ यथा यथा तपः सम्प-त्तनुते तानवन्तनौ । देहिनां महिमाभ्येति, मांसलत्वं तथा तथा ॥२७॥ प्रमाणभूमिं भजतां, मनोरथरथः कथम् ? । स्यान्न चेद् दुरितग्राव-वज्रमुजागरं तपः ॥२८॥ एवं गुरुगिरां पूरं, कर्णपूरं विधाय सः । रोहणोपत्यकां प्राप, प्रयाणैरविलम्बितैः ॥२९॥ तत्र निर्झरझात्कार-स्फारपर्जन्यगर्जिते । शिखण्डिमण्डलाकाण्ड-ताण्डवारम्भनिर्भर ॥३०॥ दिनेशत्रासितध्वान्त-शरणप्रह्वगह्वरे । तत्र निर्झरतले रम्ये, स्वसैन्यं स न्यवेशयत् ॥३१ ॥युग्मम्॥ शुचिः श्वेतांशुकः कुर्वन्, पौषधं दुरितौषधम् । रोहणाधिपमाराद्धं, सोपवासत्रयीं व्यधात् ॥३२॥ अथास्य दुस्तरतप:-सम्पदा कम्पितासनः । आविर्भूय स्वयं प्राह, रोहणाधीश्वरः सुरः ॥३३॥ 'प्रीतस्त्वत्तपसा भद्र !, ब्रूहि किं ते विधीयताम् । लोकर्मे ग्रावखण्डानि, हृतानि न पुनर्मणी:' ॥३४॥