________________
२४
कथारत्नसागरे
तपःप्रभावे श्रीदत्तकथा । तरङ्गः - ४ ।
तरङ्ग-३ : रोहिणीकथा यदि मे निर्मलं शीलं, मनो-वचन-कर्मभिः । त्वं रुद्धगगनोत्सङ्गे, गङ्गे शान्तिमुपैहि तत् ॥७१ ॥ इत्युक्त्वा रोहिणी याव-च्चक्रे करतले जलम् । इन्द्रजालनिभस्तावत्पूरो दूरतरं ययौ ॥७२ ।। अहो शीलमहोशील-मिति लोकध्वनिस्तदा । चक्रे चलितकल्लोल-कोलाहलतिरस्क्रियाम् ॥७३॥ मालिन्यं भयसम्भूतं, पौराणां वदनात् ततः । श्रेष्ठिनो मनसः शङ्कासम्भवं च समं ययौ ॥७४ ।। अथ स्वगृहमायातां, तां सपौरैः पुरेश्वरः । अभ्यर्च्य प्रशशंसास्याः , शीलं जैनं च शासनम् ॥७५ ॥ इति प्रत्यक्षमुवीक्ष्य, प्रभावं शीलसम्भवम् । प्रपेदे नन्दभूपालः, सम्यक् सम्यक्त्ववर्तिनीम् ॥७६ ।। तां पुरस्कृत्य चैत्येषु, महामहिमपूर्वकम् । भूपः प्रावर्त्तयत् पुण्य-पात्रं यात्रामहोत्सवम् ॥७७ ॥ धनावहप्रभृतयः, पौराः प्रत्ययदर्शिनः । निर्ममं निर्मलं शीलं, कार्मणं शिवसम्पदः ॥७८ ॥ कृत्वा प्रभावनामेवं, भावनां चापि रोहिणी । लप्स्येते सुकृतकृती, क्रमान्निश्रेयसः श्रियम् ॥७९॥
कृत्वैतन्निजहृदि रोहिणीचरित्रं, पावित्र्यं दधदधिकं जगत्त्रयस्य । हे सन्तः सततममूल्यशीलरत्नं यत्नेन स्थिरतरभूषणं भजन्ताम् ॥८॥ इति मलधारिश्रीनरचन्द्रकृते कथारत्नसागरे
रोहिणीचरितं नाम तृतीयस्तरंगः॥
जयन्ति पल्लवोल्लासा-स्तप:कल्पमहीरुहः । यैर्न सञ्जायते कस्य, श्रीदत्तस्येव पूज्यता ? ॥१॥ ख्याताऽस्ति नगरी चम्पा, शम्पा विप्लवभूरुहः । व्यवहारात् पराभूति-श्चित्रं यत्र निवासिनाम् ॥२॥ बभूव भूपतिस्तत्र, विश्रुतो रिपुमर्दनः । विपक्षवाहिनीचक्र-सङ्क्रमो यस्य विक्रमः ॥३॥ पौरधौरेयकस्तस्य, प्रसादसदनं परम् । ख्यातः श्रीदत्तनामोऽस्ति, श्रेष्ठी श्रेष्ठगुणास्पदम् ॥४॥ अथान्येधुर्महीनाथ-सभानभसि भास्करः । दूरदेशान्तरायातैः सार्थवाहैरुपस्थितः ॥५॥ 'चिरात्तरत्नसर्वस्वं, यत्नाद्रत्नाकरादिव । प्राभृतीकृतमालोक्य 'तानुवाच नरेश्वरः ॥६॥ निजप्रभापराभूत-धुमणेमणिसंहतिः । ब्रूत संभूतिमभ्येति, सेयमाकरतः कुतः ? ॥७॥ आमूलचूलं भूपाल-पुङ्गवस्य पुरस्ततः । रोहणाचलमाचख्युस्ते रत्नाङ्कररोहणं ॥८॥ ततस्तान्नैगमान्मान्यान्, सन्मान्य वसुधाधिपः । विसृज्य चान्तिकासीनं, श्रीदत्तमिदमब्रवीत् ॥९॥ धर्मन्यायमयोद्दाम-भण्डनोड्डामरद्युतिः । इयं पुरीसमृद्धिः , स्पर्धते स्व:समृद्धिभिः ॥१०॥
१. चिरन्तरत्न | || २. श्वेत D ||