________________
२८
तरङ्ग-४ : श्रीदत्तकथा येषां ब्रह्मव्रतं सत्यं, स्वामिभक्तिः कृतज्ञता । तपश्चात्यद्भुतं तेषां देवा: सेवाविधायिनः ॥३५ ।। श्रेष्ठी जगाद सानन्दो, 'रोहिणेश ! तवान्तिके । आहा रत्नसर्वस्वं, प्रहितोऽहं महीभुजा ॥३६॥ विधेयं तत्तथा नाथ, यथेयं रत्नसंहतिः । विधूतविघ्नसङ्घाताः, भूपालमुपतिष्ठते' ॥ ३७ ॥ स तथेति प्रतिश्रुत्य, रोहिणेशस्तिरोभवत् । रत्नान्याविर्बभूवुश्च, पर्वते रोहणाचले ॥३८॥ श्रेष्ठी रोहणमारुह्य, प्रायः प्रयतमानसः । जग्राह रत्नसम्भारं, तपस्तेज इवोज्ज्वलम् ॥३९॥ अथोत्तीर्य नृपप्रीति-वल्लभाकृष्टमानसः । पारापतपतत्रीव, वेगादागान्नृपान्तिकम् ॥४०॥ क्ष्मामिलन्मौलिरानम्य, नैगमग्रामणीर्मणीन् । भूभृतः प्राभृतीचक्रे, बद्धसन्ध्याभ्रविभ्रमान् ॥४१॥ प्रसादविशदैनॆत्रैः, श्रमं व्यपनयन्निव । एनमानन्दयामास, नृपतिर्वचनामृतैः ॥४२॥ 'उच्चैः पराक्रमवता, स्वाम्यादेशहनूमता । रोहणस्थावरोऽप्येष, भवता जङ्गमः कृतः ॥४३॥ स्वामिनो देशमादातुं, जङ्घालाः के न सेवकाः ? । आदेशं पुनरादातुं, पङ्गनामपि पङ्गवः ॥४४ ॥ मित्रसेन इति ख्यातं, मदीयं हृदयान्तरम् । कथं नोत्कंठतेऽस्मासु, येनाद्यापि न दृश्यते' ॥४५॥
कथारत्नसागरे उवाच श्रेष्ठिनां श्रेष्ठः, श्रूयतां देव ! कौतुकम् । इतस्तावत्तवादेशाद्, गतोऽहं रोहणाचलम् ॥४६॥ अथाऽस्योपत्तिकासीम्नि, शिबिरे सन्निवेशिते । वनान्तरश्रियं द्रष्टुं, मित्रसेनो विनिर्ययौ ॥४७॥ वनस्य पश्यन्नश्रान्त-मुद्दामं रामणीयकम् । कृष्टः पुरश्शरेणेव, कौतुकेनाति दूरतः ॥ ४८॥ पुरस्तात्तेन निधीत-कलधौतमयो महान् । आवासो ददृशे चन्द्र-क्षुब्धक्षीरोदसोदरः ॥४९॥ ततोऽसौ यावदावास-द्वारे विशति शङ्कितः । तावदाविर्बभूवात्र-स्त्रीराज्यमिव सर्वतः ॥५०॥ प्रभो ! प्रसीद सीदन्ती, स्वामिनी नः प्रमोदय । दीपालीदिनवन्नाथ !, चिरात् प्राप्तोसि साम्प्रतम् ॥५१॥ इत्येवं चाटुकारीभिः, प्रतीहारी भिरावृतः ।। वशाभिरिव यूथेश-श्चन्द्रशालामुपाययौ ॥५२ ॥युग्मम् ॥ सर्वस्याप्युपमानस्य यान्ती प्रत्युपमानताम् । स्त्रीरूपाणामियत्तेव, योषिदेका तमभ्यगात् ॥५३॥ अद्य गुर्वाशिषः सत्याः, पुण्यबीजं कृताङ्करम् । फली मनोरथतरुः, सुभग ! त्वयि वीक्षिते ॥५४॥ इदं सौधमियं लक्ष्मी-रयं चादेशकृज्जनः । मामेकां किङ्करीकृत्य, सर्वमप्यात्मसात्कुरु ॥५५॥ एवं स वचनैः स्वामिन् !, आकृष्टहृदयस्तया । तत्राऽवतस्थे सौस्थ्येन नायातस्तन्मया सह' ॥५६॥
१. पङ्गवा अपि पुङ्गव: T॥
१.
/विवेकता-DC ||