________________
द्वितीयो भानुः
स्याद्वादमञ्जरी चैव, षड्दर्शनसमुच्चयः । न्यायमुक्तावलिश्चैव, रत्नाकरावतारिका ।।९४।।
स्याद्वादसागरो न्याय
बिन्दु-र्ज्ञानार्णवोऽपि च ।
सिद्धान्तलक्षणं व्याप्ति
पञ्चकं न्यायवार्त्तिकम् ।। ९५ ।।
सामान्यलक्षणा तर्क
सङ्ग्रहश्चार्थसङ्ग्रहः ।
न्यायसूत्रं तथा योग
बिन्दुश्च तत्त्वसङ्ग्रहः ।। ९६।।
न्यायाध्ययनम्
॥ पूभ्यश्रीो अध्ययन इरेल न्यायग्रन्थो ||
સ્યાદ્વાદમંજરી,
પગ્દર્શન સમુચ્ચય,
મુક્તાવલિ,
રત્નાકરાવતારિકા,
સ્યાદ્વાદરત્નાકર,
ન્યાયબિંદુ,
ज्ञानावि
સિદ્ધાન્તલક્ષણ,
व्याप्तिपंथ,
६५
न्यायवार्त्तिक,
સામાન્યલક્ષણા,
तर्कसंग्रह,
अर्थसंग्रह,
ન્યાયસૂત્ર,
યોગબિન્દુ,
तवसंग्रह
न्यायविशारदम्
ततश्च युक्तिप्रधानेनैव भाव्यम्, तन्मूलशास्त्रस्यैवादेयत्वात्, उक्तं च ' अपि पौरुषमादेयं, शास्त्रं चेद् युक्तिबोधकम् । अन्यत्त्वार्षमपि त्याज्यं, भाव्यं न्यायैकसेविना ।।' इति योगवाशिष्ठे । ततश्च न्यायाधीनत्वेन तत्फलभावादलमनेन, 'तद्धेतोरेव तदस्तु किं तेन ?' इति लौकिकन्यायसाहस्युक्तेरिति । मैवम्, तत्राऽऽगमत्वस्यैवाभावात्, तन्निरुक्त्यतिक्रमात्, आप्तप्रभवस्यैव तत्त्वात्, तेषां चाऽनाप्तप्रभवत्वात् । तदुक्तं- 'आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञातं चाभिधत्ते स आप्तः ।' इति प्रमाणनयतत्त्वालोके ।।४- १/४ ।। ततश्च तेष्वागमत्वाभावः, दृष्टेष्टबाधितत्वाच्च, जिनमते तु न कोऽपि दोष:, तत्त्वविरहात्, प्रत्यक्षादिसिद्धत्वात्, तथाप्रतीतेः, तस्यैव शरणत्वात्, अन्यथा सर्वत्राऽनाश्वासात् । तदुक्तम्- 'संविदेव हि भगवती वस्तूपगमे नः शरण' मिति न्यायकुसुमाञ्जलौ । परदर्शनानां तु नित्यानित्यैकान्तमतत्वेन सर्वथाप्यनुपपद्यमानत्वात् मिथ्यात्वम्, कृतनाशाकृताभ्यागमप्रसङ्गात्, तदुक्तं वीतरागस्तोत्रे 'सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । एकान्तानित्यरूपेऽपि कृतनाशाकृतागमाविति । ।८ - १ ।। जिनेन्द्रे तु रागद्वेषाभावात् सर्वज्ञत्वादसत्यत्वासम्भवः उक्तं च‘रागद्वेषविमुक्तत्वात् तथ्यं ब्रूते जिनेश्वरः । इत्यात्म-दर्शनगीतायाम् ।।७६ ।। तथोक्तम् ' वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुव क्वचित्। यस्मात्तस्माद्वचस्तेषां तथ्यं भूतार्थदर्शनम् ।।' इति ।
युक्तिमात्रानुसरणे तु प्रबलतर्कानुमितार्थेऽपि विसंवादसम्भव:, तदुक्तं परैरपि - 'यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैन्यैरन्यथैवोपपाद्यते ।।' इति वाक्यपदीये । ।१-३४ ।।
इत्थं च सूक्तम् - ‘शास्त्राविरुद्धतर्काक' इति, शास्त्रस्यैव मोहान्धकारदीपसमत्वेन प्रवर्तकत्वात्, तदुक्तम् 'लोके मोहान्धकारेऽस्मिन्, शास्त्रालोकः प्रवर्तकः । । ' इति योगबिन्दौ । । २२४ । ।
शास्त्राऽविरुद्धतर्कः
-