________________
६४
तत्प्रभावात्सुदुर्धार्यान्, कठिनकठिनानपि ।
प्रकृष्टधीप्रसाध्याँश्च,
न्यायाध्ययनम्
भुवनभानवीयमहाकाव्ये
તેના પ્રભાવે ખૂબ દુઃખેથી ધારી શકાય તેવા અત્યંત કઠિન તેવા, પ્રકૃષ્ટ બુદ્ધિથી જ ભણી શકાય તેવા ન્યાયના ગ્રન્થોને તેઓ જલ્દીથી भी गया. ॥3॥
ग्रन्थान् सोऽधीतवान् द्रुतम् ।।९३।।
न्यायविशारदम्
लहुगुरुगुरुतरगंमि अ अविहिम्मि जहक्कमं इमे णेया । उक्कोसगाविहीओ उक्कोसो धम्मभंसो त्ति' ।। ५६७, ५६८, ५६९ ।। इति प्रकटं पञ्चवस्तुके ।
एवंभूतश्च वादादिलब्धिसम्पन्नत्वेन, जितपर्षत्त्वेन, प्रतिभासम्पन्नत्वादिना च परमपरोपकारं जिनशासनप्रभावनां च कर्तुमलं भवति, मल्लवादिवत् ।
ततश्च न्यायाद्यध्ययनमपि स्थिरदर्शनस्य साधोः परमस्वपरोपकारकारणत्वेन मुक्त्युपायभूतत्वाद् युक्तमेवेति स्थितम् । (१०७) शास्त्राविरुद्धेत्यादि । नन्वयुक्तमिदं विशेषणम्, तर्काक इत्यस्यैव वक्तव्यत्वादिति चेत् ?
न तदविशिष्टस्य कुतर्कत्वेन प्रतीतिफलबाधितत्वात्, हस्तिकृतव्यापादने प्राप्ताप्राप्तविकल्पवत्, सर्वार्थानामसर्वज्ञविषयत्वाभावात्। अन्यथा दृष्टान्तानां सौलभ्यात् तन्मात्रेण सर्वसिद्धिप्रसक्तेः द्विचन्द्रस्वप्नविज्ञानादिदृष्टान्ततः सर्वज्ञाननिरालम्बनत्वसिद्धिवत् । तस्मात् सूक्ष्मार्थसिद्धावागम एव शरणम् । न च तत्राऽप्यविद्याप्रयुक्तत्वसम्भव इति वाच्यम्, नियतसंवाददर्शनात्, चन्द्रसूर्यग्रहणादिसंवाद्यागमे तथादर्शनात् । तदुक्तं ‘अविद्यासङ्गता प्रायो विकल्पा सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ? ।।
जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताप्राप्तविकल्पवत् ।। स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नार्वाग्दृग्गोचरो न्यायादन्यथान्येन कल्पितः । । दृष्टान्तमात्रं सर्वत्र यदेव सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्याऽपोद्यते ह्ययम् ।। द्विचन्द्रस्वप्नविज्ञान- निदर्शनबलोत्थितः । निरालम्बनतां सर्व-ज्ञानानां साधयन्यथा ।। सर्वं सर्वत्र चाप्नोति, यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके, तदनेन न किञ्चन ।। अतीन्द्रियार्थसिद्ध्यर्थं यथालोचितकारिणाम् । प्रयासः शुष्कतर्कस्य, न चासौ गोचरः क्वचित् ।। गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागादि-संवाद्यागमदर्शनात् । ।' इति योगदृष्टिसमुच्चये ।। ९०, ९१, ९२, ९५, ९६, ९७, ९८, ९९ ।। युक्तं चैतत् इत्थमेवातीन्द्रियज्ञानोपपत्तेः परेषामपीत्थमेवोत्तमतत्त्वप्राप्तेरभिमतत्वात् उक्तं च 'एतत्प्रधानः सच्छ्राद्ध:, शीलवान् योगतत्परः । जानात्यतीन्द्रियानर्थान्, तथा चाह महामतिः ।। आगमेनाऽनुमानेन योगाभ्यासरसेन च। त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् ।।' इति योगदृष्टिसमुच्चये । ।१००/१०१ ।। महामतिरिति पतञ्जलिः ।
महायानसूत्रालङ्कारेऽपि 'बालाश्रयो मतस्तर्कस्तस्याऽतो विषयो न त ' -दित्युक्तम् । ।१-१२ ।।
अथागमेष्वपि परस्परविरोधदर्शनात् तेऽप्यप्रमाणम्, परस्परहतत्वात्, सुन्दोपसुन्दवत् । तदुक्तं- 'सुगतो यदि सर्वज्ञो कपिलो नेति का प्रमा ?। तावुभौ यदि सर्वज्ञौ मतभेदः कथं तयोः ? ।।' इत्यादि । तथोक्तमाप्तमीमांसायाम्- 'तीर्थकृत्समयानां च परस्परविरोधतः । सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः । । ३ । । तथोक्तं लोकतत्त्वनिर्णये- ' यच्चिन्त्यमानं न ददाति युक्तिं प्रत्यक्षतो नाऽप्यनुमानतश्च । तद्बुद्धिमान् को नु भजेत लोके ? गोशृङ्गतः क्षीरसमुद्भवो न । । १६ ।।
तर्कशास्त्राभ्यासः
-