________________
द्वितीयो भानुः
नानाप्रकरणेषूच्चै - धमतोर्धीरभूद्धरा । कृत्स्नागमरहस्यानि, सटीकान्यारमन् हृदिं ।।८८।।
मतिवाक्पतिसप्रक्षो,
गुरुगुणो गुरुर्ह्यपि ।
न्यायेऽग्रजं कनीयांसं,
व्याकरणे युयोज च ।।८९।।
वाराणसीमहाविद्व
दध्यापकं समाप्य च ।
श्री भानुविजयोऽत्यन्तं,
न्यायाध्ययनहेतुतः । । ९० ।।
न्यायाध्ययनम्
१. 'तयो' रिति शेषः । २. सदृशः ।
६१
વિવિધ પ્રકરણોમાં બુદ્ધિશાળી એવા તેમની બુદ્ધિ વિકસિત થઈ અને બધા આગમોના રહસ્યો સટીક હૃદયમાં રમવા લાગ્યા. llll
એવા
મતિથી બૃહસ્પતિસમાન, મહાગુણવાન ગુરુદેવે મોટાભાઈને ન્યાયમાં અને નાના ભાઈને व्याकरएामां भेड्या. ॥ ll
મુનિશ્રી ભાનુવિજયજીને કાશીના મહાવિદ્વાન અધ્યાપકનો યોગ થયો. અને ન્યાયનો ખૂબ अभ्यास वा भाटे. Gol
-सङ्घहितम्
न्यायविशारदम्
(९०) न्यायाध्ययनेति। अथाऽयुक्तं न्यायादिपरदर्शनाऽध्ययनम्, मुक्त्युपायव्यतिरिक्तत्वात्, शिल्पाद्यध्ययनवत्। न च हेतोरसिद्धता, जिनशासन एव मोक्ष इत्युक्तत्वात् । तथा चार्षम् - ‘सो अत्थि अवितहो जिणमयंमि पवरो न अन्नत्थ - इति दशवै० निर्युक्तौ ।।२६६ ।। नाऽपि विरुद्धता, परेषामेव मुक्त्यभ्युपगमापत्तेः, न चेष्टापत्तिः, तदनभ्युपगमेऽविगानात्, अत एवोक्तमयोगव्यवच्छेदद्वात्रिंशिकायाम् - परे सहस्रा: शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्ष' मिति । । १४ । । न च ' निव्वाणसेट्ठा जह सव्वधम्मा' इत्यागमविरोध (सूत्रकृताङ्गे ।।१-६२४।।) इति वाच्यम्, अभिप्रायाऽपरिज्ञानात्, पराभ्युपगमेनास्योक्तत्वात्, तदाह वृत्तिकार : - 'कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं ब्रुवते यत' इति । (पृ. १५०) यद्वा जिनोक्ते श्रुतधर्मादी सर्वत्वोक्तिरुन्नेया, अन्यत्र धर्मत्वस्यैव विरहात्, तल्लक्षणायोगादिति विभावनीयम् । अत एव नाऽनेकान्तः ।
मैवम्, तस्य तद्व्यतिरिक्तत्वासिद्धेरसिद्धो हेतुः । निश्चयनयशुद्धचरणकरणसारस्य ज्ञानस्य स्वसमयपरसमयाभिज्ञताऽविनाभावित्वात्, तत्सारस्य मुक्त्युपायत्वेन सिद्धत्वात् । तदुक्तं सन्मतौ – 'चरणकरणप्पहाणा ससमयपरसमयमुक्कवावारा। चरणकरणस्स सारं निच्छयसुद्धं न याणंति' - त्ति ।।३-६७।।
-
ननु तदध्ययनस्य काङ्क्षादिजनकत्वेन सम्यग्दर्शनमालिन्यनिबन्धनत्वादयुक्तत्वमेव, अत एवाऽसिद्धतापरिहारोऽपि गम्यः । तन्मालिन्यस्य प्रत्युत बाढं मुक्तिपरिपन्थित्वात्, चारित्रादपि दर्शनस्याधिकमाहात्म्यश्रुतेः, तदुक्तम् 'सिज्झति चरणरहिया, दंसणरहिया न सिज्झंति'-त्ति, तत्सारज्ञानाभावदोषस्य चाल्पत्वादिति चेत् ? न, तथाविधस्थिरदर्शनस्यैव तदध्ययनाऽनुज्ञानात्, तदितरनिषेधात् । तथा च वज्रलेपायमानाऽसिद्धता । किञ्चात्र 'स्वसमयपरसमयपरिज्ञानेन सम्यक्त्वगुणावस्थितो भवती' -ति सूत्रकृताङ्गवृत्तिरवश्यं स्मर्तव्या ।
१. ननु पराभ्युपगमोऽपि प्रमाणमूलक इतरो वा ? आद्ये त्वागमविरोधतादवस्थ्यम्, द्वितीये तद्वचनानुपपत्तिः इत्यस्वरसत आह यद्वेत्यादि ।
(तर्कशास्त्राभ्यासः
-