________________
દર
-न्यायाध्ययनम् ।
भुवनभानवीयमहाकाव्ये षष्ठात् षष्ठं तपश्चक्रे,
વધારે સમયની પ્રાપ્તિ થાય તે માટે છઠ્ઠને પારણે अधिकाध्वाप्तये चिरम् ।
છઠ્ઠનો તપ લાંબા સમય સુધી કર્યો. સુખાર્થીએ सुखार्थी चेत् त्यजेद् विद्यां,
વિધા છોડવી પડે ને વિધાર્થીએ સુખ છોડવું પડે. विद्यार्थी चेत् त्यजेत्सुखम् ।।९१।। युग्मम्।। ||१|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~
तथाऽपि किमनेन कपिलादिप्रणीतमिथ्याश्रताऽध्ययनेन ? गणधरादिप्रणीत सम्यक्श्रुतमेवाऽधीयतामित्यप्यनुपासितगुरोर्वचः, मिथ्येतरापरिज्ञानात, तयोः प्रणेतृनिरपेक्षत्वात, परिग्राहकसापेक्षत्वात्। तथा च सम्यग्दृष्टिपरिगृहीतं सर्वमपि सम्यक्श्रुतम, इतरच्च सर्वमपीतरत्, तदुक्तं विशेषावश्यकभाष्ये- 'सम्मत्तपरिग्गहियं सम्मसुयं ति ।।५२८ ।।
तथोक्तं नन्दीसूत्रे- 'एयाइ मिच्छद्दिहिस्स मिच्छत्तपरिग्गहियाई मिच्छसुयं, एयाणि चेव सम्मद्दिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं' ति।।७२ ।। पापश्रुतनिरूपणे 'मिच्छापावतणे'त्ति स्थानाङ्गोक्तिस्तु तद्वृत्तौ यथा विवेचिता तत्तत एव बोध्यम् ।।९-६७८ ।।
ननु भवतु नाम तदपि तथा सम्यक्श्रुतम्, कि स्वकीयमपेक्ष्य परकीयाध्ययनाऽत्यन्तश्रमे का विदग्धतेति चेत ? बालो-ऽसि, स्वकीयेतरमौग्ध्यात, बालवदेव। यतः भवदभिप्रायेण परकीयमपि वस्तुतस्तु स्वकीयमेव, सर्वदर्शनानामपि जिनशासनैकदेशत्वात्। यथोक्तं- 'भई मिच्छादसणसमूहमयस्स अमयसारस्स। जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ।।३६९।। त्ति सन्मतौ। तथोक्तमुपदेशपदे- 'सव्वप्पवायमूलं दुवालसंगं जओ जिणक्खायं। रयणागरतुल्लं खलु तो सव्वं सुंदरं तम्मि ।।६९४ ।। तथा च श्रीसिद्धसेनकृत द्वात्रिंशद्वात्रिंशिकायाम् 'उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः। न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ।।४-१५ ।। तथा 'क्रमान्नया सप्त परैर्गृहीताः, परस्परं ये विवदन्त एव । सप्तापि ते श्रीजिनशासनेऽ-स्मिन्नेकीभवन्ति स्म जिनेन्द्रवाचा।। इति नयप्रकाशस्तवे।।४।। तथोक्तं विशेषावश्यकभाष्ये - 'मिच्छत्तमयसमूहं सम्मत्तंत्ति ।।९५४ ।।
युक्तं चैतत्, प्रत्येकदर्शनस्य त्वेकैकनयाभिप्रायप्रवृत्तत्वात् जिनवचनस्य च सर्वनयाश्रितत्वात् सिद्धं सर्वेषां तदेकदेशत्वम् । तथा चर्जुसूत्रतो बौद्धमतम्, सङ्ग्रहात् वेदान्तिमतं साङ्ख्यमतं च, नैगमात् वैशेषिकमतं योगमतं च, शब्दनयात् शब्दाद्वैतमतम्, व्यवहाराच्च चार्वाकमतं प्रवृत्तम् । तदितरेषामपि शुद्धतरभेदभिन्नेष्वेष्वेव नयेष्वन्तर्भाव: सुधिया स्वयं विभावनीयः । तथोक्तमध्यात्मसारे - 'बौद्धानां ऋजुसूत्रतो मतमभूद् वेदान्तिनां सङ्ग्रहात्, साङ्ख्यानां तत एव नैगमनयाद्योगश्च वैशेषिकः। शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुद्वीक्ष्यते ।।१९-६।। - इति । अथैवं तु मिथ्येतरविभागाभावः प्राप्तः, सर्वेषामपि सम्यक्त्वात्, प्रत्येकमसत: समुदायेऽभावात्, सिकतासु तैलवत्, अन्यथा तु जिनमतेऽपि सम्यक्त्वाभावापत्तिः, सा चानिष्टा। न च मिथ्येतरविभागनिबन्धनं तूक्तमेवेति वाच्यम्, साम्प्रतं व्यवहारापेक्षया विचार्यमाणत्वादिति ।
मैवम्, प्रत्येकमसतोऽपि समुदायेऽसम्भवनियमविरहात्, मद्याङ्गेषु मदशक्तिवत्, ततश्चानेकान्तिको हेतुः।
वस्तुतस्तु प्रत्येकनयानां तदितरनैरपेक्ष्यादेव मिथ्यात्वम् - तदुक्तम् ‘तम्हा सव्वे वि णया मिच्छादिसपक्खपडिबद्धा' त्ति सन्मतौ ।।१-२१।। तत्सापेक्षस्य तु तस्यैव सम्यक्त्वम् । यथोक्तं तत्रैव - ‘अण्णोण्णणिस्सिया उण हवंति सम्मतसम्भावा' त्ति ।।१-२१।। तथा नयोपदेशे - 'स्वार्थे सत्याः परैर्नुन्ना असत्या निखिला नयाः।' इति ।।१०।।
यथोक्तम - 'स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः।' इति प्रमाणनयतत्त्वालोके ।।७-२ ।। ज्ञानसारे - 'नयेष स्वार्थसत्येषु, मोघेषु परचालन'- इति ।। तथाह स्तुतिकारः - 'नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभीष्टफल-दायका अतो, भवन्तमाप्ताः प्रणता हितैषिण' इति ।
तर्कशास्त्राभ्यासः