________________
द्वितीयो भानः
विनयः ।
गुरुविनयहीनस्य,
मिथ्याबोधोदयाद् गिरः । मण्डलस्य यथा दीपे,
स विपर्यय उच्यते ।।८।।
ગરુવિનયરહિત શિષ્યને વચનથી મિથ્થાબોધથી જે દીપકમાં આભામંડળના ભમ જેવો બોધ થાય छ. त विपर्यय हेवाय छे. ||coll
मोहविकारयुक्तो सो
ऽकृतार्थमीक्षते निजम् । स्फुटव्यत्ययलिङ्गोऽपि,
कृतार्थं तद्ग्रहात्तथा ।।१।।
અકૃતાર્થ એવો પણ તે આત્મા મોહવિકારથી સ્વાગ્રહને કારણે સ્પષ્ટ વિપરીત લિંગ (લક્ષણ) વાળો હોવા છતાં પોતાને કૃતાર્થ સમજે છે. ll૮૧TI
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
(८०) गुरुविनयेत्यादि। तथा च तद्वचनम् - 'गुर्वादिविनयरहितस्य यत्तु मिथ्यात्वदोषतो वचनात् । दीप इव मण्डलगतो, बोधः स विपर्यय: पापः ।। दण्डी खण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् ।। मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम् । तद्व्यत्ययलिङ्गरतं कृतार्थमिति तद्ग्रहादेव'-ति षोडशके ।।११-१२-१४ ।।
अथाऽयुक्तमत्र विपर्ययाऽभिधानम्, विकल्पानुपपत्तेः, तथाहि तत्त्वेनाऽज्ञानमभिप्रेतं न वा ? किं चातः ? उभयथाऽपि दोषः। आद्ये व्याघातः, बोधश्चाज्ञानं चेति विरुद्धोक्तेः, जीवश्चाजीवश्चेतिवत् । द्वितीयेऽपि स एव, ज्ञानं च विपर्ययश्चेति विरुद्धोक्तेः, उक्तवत्, अज्ञानेतरस्य ज्ञानरूपत्वादिति।
मैवम्, आद्ये दोषविरहात्, बोधस्याऽप्यज्ञानत्वोपपत्तेः, अभक्ष्याऽस्पृश्यवत् । तथाहि यथा भक्ष्यमपि मांसादिरभक्ष्यम् - शिलादित्वाभावेन भक्षितुं शक्यमप्यपि ह्यभक्ष्यं, शूद्रादेः स्पृश्यत्वेऽप्यस्पृश्यत्वं - धर्मास्तिकायत्वाद्यभावेन स्पष्टुं शक्यत्वेऽपि ह्यस्पृश्यत्वम्, तद्वदत्राऽपि द्रष्टव्यम्।
ननु तत्राधर्मादेस्तत्त्वे हेतुत्वम्, अत्र तु कस्य तदिति चेत् ? शृणु, सदसदविशेषादेः। तदुक्तम् -
'सदसदविसेसणाओ भवहेउ जहिच्छिओवलंभाओ। नाणफलाभावाओ मिच्छदिहिस्स अन्नाणं'- ति विशेषावश्यकभाष्ये ।।११५, ३१९, ५२१, २८४४ ।। अत्र शिष्यहिताख्या बृहद्वृत्तिः- 'सच्चाऽसच्च सद-सती तयोरविशेषणमविशेषस्तस्माद्धेतोः, मिथ्यादृष्टेः सम्बन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते, सतो ह्यसत्त्वेनाऽसद् विशिष्यते, असतोऽपि च सत्त्वेन सद भिद्यते। मिथ्यादृष्टिश्च घटे सत्त्व-प्रमेयत्व-मूर्तत्वादीन, स्तम्भ-रम्भाऽम्भोरुहादिव्यावृत्त्यादींश्च पटादिधर्मान प्रतिपद्यते, सर्वप्रकारैर्घट एवायमित्यवधारणात् । अनेनावधारणेन सन्तोऽपि सत्त्व-प्रमेयत्वादयः पटादिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा सत्त्वप्रमेयत्वादि सामान्यधर्मद्वारेण घटे पटादीनामपि सद्भावात्, ‘सर्वथा घट एवायमित्यवधारणानुपपत्तेः, कथञ्चिद् घट एवायमित्यवधारणे त्वनेकान्तवादाभ्युपगमन सम्यग्दृष्टित्वप्रसङ्गात, तथा पट-पुट-नट-शकटादिरूपं घटेऽसदपि सत्त्वेनायमभ्युपगच्छति ‘सर्वैः प्रकारैर्घटोऽस्त्येवेत्यवधारणात्, स्यादस्त्येव घट इत्यवधारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वप्राप्तेः । तस्मात् सदसतोर्विशेषाभावादुन्मत्तकस्येव मिथ्यादृष्टेर्बोधोऽज्ञानम्। तथा विपर्यस्तत्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम्, तथा पशुवध- तिलादिदहन- जलाधवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेः, दया-प्रशमब्रह्मचर्या-5ऽकिञ्चनादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात् तस्याज्ञानम् । तथा विरत्यभावेन ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानमिति गाथार्थः ।।११५।। १. बोधत्वेन।
[गुरुविनयः = ज्ञानम्