________________
५०
सदुक्तं यत्कुलीनानां,
मान्यं हि गुरुशासनम् । चरितार्थमदस्ताभ्यां,
चरितेनातिशायिना ।। ४९ ।।
गुर्वाज्ञाकरणं सर्वगुणेभ्योऽप्यतिरिच्यते ।
सर्वगुणगरिष्ठाभ्यां
न मुक्तः स गुणोऽप्यहो ! ।। ५० ।।
गुरुभक्तिं विना ताभ्यां
वृथा दिनो ह्यमन्यत ।
गुरुसेवामहत्त्वच
वचनं हैममस्त्यदः ।। ५१ ।।
भुवनभानवीयमहाकाव्ये
સાચું જ કહ્યું છે કે ‘કુલીનોને ગુરૂની આજ્ઞા
સદા માન્ય જ હોય છે.' અતિશાયિ ચરિત્રથી તેમણે આ વચન ચરિતાર્થ કર્યું. ૪૯લા
समर्पणम्
" गुर्वाज्ञारण से सर्वगुशोभां श्रेष्ठतम छे.” ते બંને બધા ગુણોમાં ગરિષ્ઠ હતા. તો આ ગુણમાં ४राय भ न हतां ॥५०॥
ગુરુભક્તિ વિના તેઓ દિવસને વાંઝિયો માનતા ગુરુસેવાનાં મહત્ત્વ માટે ક.સ. હેમચંદ્રાચાર્યનું આ वयन छे. ॥५१॥
न्यायविशारदम्
दुर्निग्रहत्वात्, समर्पणस्य दूरापास्तत्वात्, अहङ्कारस्य दुर्निवारत्वात्, मनसस्त्वत्यन्तचलत्वाच्च, तदुक्तं अवि जलहीवि निरुज्झइ पवणोवि खलिज्जए उवाएणं । मन्ने न निम्मिओ च्चिय, को वि उवाओ मणनिरोहे । ।
चिंतइ अचिंतणिज्जं, बच्चइ दूरं वि लंघइ गुरुपि ।
गुरुयाण विजेण मणो, भमइ दुरायारमहिल व्व ।' - त्ति पुष्पमालायाम् ।।१९६/१९७ ।।
तथा च योगसारे - 'सुकरं मलधारित्वं, सुकरं दुस्तपं तपः । सुकरोऽक्षनिरोधश्च, दुष्करं चित्तशोधन' - मिति । । २-३० ।।
मैवम्, अनन्तसिद्धानां योगत्रयनिग्रहाविनाभूतत्वेन तदपलापभूतमशक्याऽभिधानमचिन्तनीयमेव, तदाशातनापत्तेः । न चेष्टापत्तिः, तस्या महानर्थनिबन्धनत्वेन सिद्धत्वात् । एतेन समर्पणदूरापास्तिरपास्ता । अहङ्कारस्य दुर्निवारत्वं मनसश्च चलत्वं त्वभ्युपगम्यत एव, तथाऽपि मरणादिदुःखभीतस्य न किञ्चिदपि दुष्करं, तथात्वादेव, तैलपात्रधरवत् ।
एतेनाऽपि गुरौ योगत्रयसमर्पणसम्भवः समर्थितः । दुःखक्षयहेतो मोहनीयकर्महासे गुरुपारतन्त्र्यस्याऽनन्यकारणत्वात् । तथोक्तमष्टकप्रकरणे 'न मोहोद्रिक्तताऽभावे, स्वाग्रहो जायते क्वचित् । गुणवत्पारतन्त्र्यं हि तदनुत्कर्षसाधन'मिति ।।२२४ । । एतेन मनोनिग्रहसम्भवो दर्शितः, अभ्यास - वैराग्यादिना तत्सम्भवाच्च । तथोक्तं परैरपि 'असंशयं महाबाहो ! मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यत
इति भगवद्गीतायाम्।।६-३५ ।।
ततश्च सर्वथा गुर्वधीनतायां यतितव्यमित्यत्र परमार्थः ।
समर्पणम्
-