________________
समर्पणम्
भुवनभानवीयमहाकाव्ये
द्रव्यदीक्षा वृथा दीक्षा,
महोपाध्यायवाक् त्विमा । 'भावलिङ्गं हि मोक्षाङ्ग,
द्रव्यलिङ्गमकारणम्' ।।४०॥
द्रप्यहीक्षा d (अपेक्षा) शेगर ीक्षा छ. મહોપાધ્યાયજીનું તો વચન છે કે ભાવલિંગ તે જ મોક્ષનું અંગ છે. દ્રવ્યલિંગ તો અકારણ છે.
॥४०॥
गुरुभक्तिप्रभावेन,
तीर्थकृद्दर्शनं मतम् । समर्पणविधावस्ति,
हारिभद्रमिदं वचः ।।४१॥
ગુરુભક્તિના પ્રભાવે તીર્થકરદર્શન મનાયું છે. શ્રી હરિભદ્રસૂરિજીનું આ વચન સમર્પણવિધિને विर्ष छ. ||४||
का भक्तिस्तस्य येनाऽत्मा,
सर्वथा न नियुज्यते ? । अभक्तेः कार्यमेवाहु
रंशेनाप्यनियोजनम् ।।४।।
જેનો આત્મા સર્વથા સમર્પિત નથી, તેની કઈ (ખરી) ભક્તિ છે? અંશમાત્રથી પણ અસમર્પિતતા તેને શિષ્ટોએ અભક્તિનું જ કાર્ય કહ્યું છે. I૪શા
-सयहितम
१. श्लोकद्वयात्मकम् (४२,४३) *. नाऽत्राऽकाण्डे गुरुभक्तिप्रथनारेका विधेया, समर्पणरूपायास्तद्भक्तेीक्षात्वेन समर्थितत्वात्। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ सम्बोधसत्तरिग्रन्थे - 'आणारहिओ धम्मो पलालपुल्लूव पडिहाइ।' इति ।।४।।
अथाऽनिरोधसुखप्रियस्य जीवस्याऽनभिमतोपदेशत्वेनाऽनादेयमेतत, विषभक्षणोपदेशवत । न च लोकोत्तरमार्गेऽस्यादेयत्वम, प्रव्रज्याया अपि सुखार्थत्वात्, तदुक्तं परैरपि - 'इदं दुक्खं निरुज्झेय्य, अजं च दुक्खं न उप्पज्जेय्या' ति। एतदत्था महाराज ! अम्हाकं पव्वज्जा' इति अट्ठकथायाम्। मैवम्, निरोधेतरापरिज्ञानविजृम्भितमिदम्, वस्तुतः संसार एव निरोधः, तत्स्थस्य कर्मावरुद्धत्वात्, ततश्च मोक्ष एवाऽनिरोधः। अतोऽनिरोधसुखप्रियस्य तु प्रत्युतात्यन्तमभिमत एवाऽऽज्ञायोगः, तस्यैव तदवन्ध्यकारणत्वात्, तत्प्रमाणं तु दर्शितमेवेति स्वरूपासिद्धो हेतुः। नन्वनभ्युपगतोपालम्भोऽयम्, संसारस्थस्यैव स्वच्छन्दाऽऽचारस्याऽऽज्ञाविमुखस्या-ऽनभिमतत्वस्याभिप्रेतत्वादित्यपि बालजल्पितम्, तथाविधोन्मत्ताऽभिमतेतरत्ववदस्योपेक्षणीयत्वात् । विषयगृध्नवो ये ऐहिकापायेभ्यो-ऽप्यभीता धाय॑मवलम्बमाना उन्मत्तवद्धितेतरविवेकविहीनास्तेषां तुपदेशविषयत्वविरह एव, 'युष्मत्कृते खजनमञ्जुलाक्षि ! शिरो मदीयं यदि याति यातु। नीतानि नाशं जनकात्मजार्थं, दशाननेनाऽपि दशाननानी'त्यभिप्रायिवत् । तत्त्वदृष्टेस्तु तात्त्विकसुख एवाऽऽग्रहः, अनुन्मत्तवत्। श्रूयते च सम्यग्दृष्टेर्द्वितीयं लक्षणं यदसौ सुरनरसुखं दुःखमेव मन्यमानः शिवसुखमेवैकं वाञ्छति। उक्तं च - 'नरविबुहेसरसुक्खं दुःखं चिय भावओ उ मन्नंतो। संवेगओ न मुक्खं मुत्तूण किंपि पत्थेइ ।। इति। ___परैरपि पतञ्जलिप्रभृतिभिः परिणाम-ताप-संस्कार-गुणवृत्तिविरोधादिहेतुभिः सांसारिकसुखं दुःखत्वेनैवेष्टम् । तदुक्तं - ‘परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः।' इति पातञ्जलयोगसूत्रे ।।२-१५ ।। तथोक्तं विनयपिटकमहावग्गे - ‘एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।' इति ।।१-१-१ ।।
आज्ञायोग:
शता