________________
महाभिनिष्क्रमणम्
भुवनभानवीयमहाकाव्ये
भ्रातरौ तौ भवत्रातृ
रजोहरणपाण्यहो! विश्वविश्वविजेतारा
विव हर्षसमन्वितौ ।।२८॥
સંસારમાં તારણહાર એવું રજોહરણ બંને ભાઈઓને હસ્તગત થયું. અને જાણે સમગ્ર વિશ્વને ती दीधुं होय तवा साहित.... ||२८||
यौवनश्रीपती ह्येवं,
ચોવનશ્રીના સ્વામિ છતાંય આ રીતે મોહના त्यजन्तौ मोहशासनम् ।
શાસનને ફગાવી દેતા એવા, સંઘની આંખોમાં जनयन्तौ च सङ्घाक्षि
महामसुमोनुं पूर S२ता मेवा..... ||२|| महाक्षिशरसागरम् ।।२९।।
-सङ्घहितम्१. पाणी (द्विव.) + अहो ! २. मांसु ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
मैवम, नियोगतो भवत्रातृत्वेन व्यभिचारविरहा, भावेतरोभयरजसामधिकृतत्वात, तदुक्तं - 'हरइ रओ जीवाणं बझं अभिंतरं च जं तेणं, रयहरणं ति पवुच्चइ कारणकज्जोवयाराओ ।। संयमजोगा इत्थं रओहरा तेसि कारणं जेणं । रयहरणं उवयारा भन्नइ तेणं रओ कम्मं ।। इति । इतरमात्रहरणत्वस्य सम्मार्जन्यादावपि भावात्, तत्र च प्रकृतानुपयोगात् । इत्थं च यदेव भावरजोहरणत्वेन मुक्तिप्रापकत्वात् भवत्रातृ तदेव तत्त्वतो रजोहरणम् । इतरत्तु सम्मार्जनी, तुल्यकार्यत्वात्, तथालोकव्यपदेशदर्शनात्, अयं जनोऽहमेवेतिवत् । इत्थं च मुख्यार्थे तदुपपत्तिर्युक्तत्वं चेति स्थितम् । ननु भावादिचिन्तामन्तरेण व्यभिचारतादवस्थ्यम्, ततश्चायुक्तं विशेषणमिति चेत् ? न, हेतोर्विरुद्धत्वात्, साध्यविरुद्धसाधनात्, व्यभिचारस्य विशेषणयुक्तत्वनिबन्धनत्वात्, व्यभिचारे सत्येव तत्सार्थक्यात्, नीलकमलवत्, अन्यथा तदयोगात्, व्यर्थत्वात्, श्वेतदुग्धवत् ।
तदुक्तं - ‘सम्भवव्यभिचाराभ्यां, स्याद्विशेषणमर्थव'-दिति। ___ तथाहि नीलं कमलं सम्भवति, कमलं नीलत्वव्यभिचार्यपि भवति, सितत्वादियोगात, ततश्च तद विशेषणं सार्थक स्यात् । दुग्धे श्वेतत्वसम्भवेऽपि तद्व्यभिचारविरहात् तादृशविशेषणस्य वैयर्थ्यम्, व्यवच्छेद्याऽभावात्, ततश्चायुक्तत्वम् । इत्थं च सिद्धा हेतोर्विरुद्धता।
एवं प्रकृते व्यभिचारयोगः, भवत्रात्रितरत्वयोगात्, ततश्च युक्तत्वम्, यतोऽत्र सामान्योक्तेः द्रव्येतरतत्परिग्रहः, द्रव्ये व्यभिचारः, भावे सम्भवः। यथोक्तं समयसारे - ‘णिच्छयओ ण इच्छदि मोक्खपहे सव्वलिंगाणि' त्ति ।।४१४ ।। अत्र हि सर्वलिगानीति पदेन सर्वद्रव्यलिङ्गान्यभिप्रेतानीति। तथोक्तमध्यात्मसारे- 'भावलिङ्ग हि मोक्षाङ्ग, द्रव्यलिङ्गमकारणम् । द्रव्यं नाऽत्यन्तिकं यस्मा-नाऽप्येकान्तिकमिष्यत' - इति ।।२११।।।
अत्र चैकान्तिकत्वाभावोक्तेर्व्यभिचाराक्षेपः, तस्यानेकान्तरूपत्वात् । तथा चार्षम् - 'संसारसागरमिणं परिभमंतेहिं सव्वजीवेहिं । गहियाणि मुक्काणि य अणंतसो दव्वलिंगाणि - त्ति उपदेशमालायाम् ।।६२१ ।।
वस्तुतस्तु रजोहरणलक्षणेयं सज्ञा कारणे कार्योपचारात्, कर्मरजोविनयनसमर्थपरिणामहेतौ तद्व्यपदेशभावात्, संयमयोगानां तदायत्तत्वात्, इत्यपि ध्येयम्, तथोक्तं मार्गपरिशुद्धिप्रकरणे - 'अन्वर्थसज्ञेयं कारणकार्योपचारतो भणिता। संयमयोगा यस्मादिह सर्वेऽप्येतदायत्ता' इति ।।६०।।
૧. સાવરણી
रजोहरणविनिश्चयः