________________
द्वितीयो भानुः
प्रव्रज्याप्रार्थनम
शुद्धशुद्धतमौ भावे,
वाचि च गद्गदाक्षरौ । फुल्लप्रफुल्लितौ देहे,
सत्त्वसारौ च सर्वथा ।।८।।
ભાવથી શુદ્ધ-શુદ્ધતમ, વાણીથી ગદ્ગદ્, દેહથી પુષ્પ જેવા પ્રફુલ્લ, અને સર્વથા સત્ત્વના સારથી युत.... |
वर्द्धमानसमुल्लासौ,
वर्द्धमानगुणार्णवम् । गत्वा प्रेममुपाध्यायं, ववन्दाते त्रिधाऽपि तम् ।।९।।
। पञ्चभिः कलापकम् ॥
વર્ધમાન સમુલ્લાસધારક એવા બંને ભાઈઓએ જઈને વર્ધમાનગુણસાગર એવા ઉપાધ્યાયશ્રી પ્રેમવિજયજીને વંદન કર્યા. llલા
पात्रतापरमाम्भोधी,
પાત્રતાના મહાસાગર એવા બંને ભાઈઓને જોઈને दृष्ट्वा तौ युवको गुरुः ।
ગુરુદેવ પ્રસન્ન થયા. હા “રત્ન' એ ઝવેરીની प्रसन्नोऽभूद् यतो रत्नं,
નજરમાં રત્ન હોય છે. (સામાન્ય જનની દૃષ્ટિમાં रत्नं रात्निकचक्षुषि ।।१०।।
રત્ન-પથ્થર સરખા હોય છે.) ||૧|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(१०) पात्रतापरमेत्यादि। पात्रता नाम बहुमता गुणज्ञानां विग्रहवती शमश्रीः, स्वाश्रयो भावसम्पदामिति ललितविस्तरा। सा गुणज्ञानां बहमता भवतीति प्रोक्तम, ब्रमश्चाग्रे- 'रत्नं रत्नं रात्निकचक्षषीति' अविशेषज्ञा तु रत्नेतरयोर्निविशेषा भवन्ति, चन्द्रकान्ते गोपवत् । उक्तं च- 'नार्घन्ति रत्नानि समुद्रजानि परीक्षका यत्र न सन्ति देशे।
आभीरघोषे किल चन्द्रकान्तं त्रिभिर्वराटैविपणन्ति गोपाः ।।। तथा- ‘अस्यां सखे ! बधिरलोकनिवासभूमौ, किं कूजितेन तव कोकिल ! कोमलेन ?। एते हि दैवहतकास्तदभिन्नवर्णं, त्वां काकमेव कलयन्ति कलाऽनभिज्ञाः ।। इति शार्ङ्गधरपद्धतौ ।।८४०।।
तथेयमेव विग्रहवती शमश्रीः, तत एव तद्भावाद्, अन्यथाऽयोगात्। न हि यत्नशतैरप्यस्वर्णं शुद्धार्जुनतां व्रजति, तद्योग्यताऽभावात्, अशुद्धस्वर्णं तु व्रजेदपि तां, तद्भावात्। तथेयं भावसम्पदां स्वाश्रयः, तदभावेऽभावात्, अनाश्रयावस्थानाऽसम्भवात्। निराश्रये तथाविधद्रमके व्यभिचार इति चेत् ? न, तस्याऽपि मार्गाद्याश्रयत्वेन तत्त्वतो निराश्रयत्वायोगात्। ज्योतिष्कविमानादौ व्यभिचार इति चेत् ? न, तेषामप्याकाशकालाश्रयत्वात्। ननु भवत्वाकाशाश्रयत्वम्, कालाश्रयत्वं तु कथमिति चेत् ? आकाशाश्रयत्वं कथमित्युच्यताम, प्रतीतिसिद्धत्वादिति चेत् ? तुल्यम, तथाहि यथेहेति प्रत्ययेनाकाश आश्रयत्वं सिध्यति तथैवेदानीमिति प्रत्ययेन तदधिकरणभावेन कालस्यापि तत सिध्यति, संविच्छरणत्वादसर्वज्ञानाम, तदुक्तं- 'संविदेव हि भगवती वस्तूपगमे नः शरण' मिति न्यायकुसुमाञ्जलौ। इत्थं च सिद्धं कालस्याश्रयत्वम, तथोक्तं'जन्यानां जनक: कालो, जगतामाश्रयो मत' - इति कारिकावलौ।।४६।।
पात्रतापेक्षा