________________
३८
महोत्साही महासङ्घ
स्तत्रस्थश्च तदा त्वभूत् ।
दीक्षादानादिकार्येषु,
समुद्यतः सदाऽपि हि ।।४।।
कर्मसङ्ग्रामवीरौ तौ,
रोमहर्षसमन्वितौ ।
स्वयम्भूरमणस्पर्द्धि
संवेगार्णवशालिनौ ॥ ५ ॥
भवनिर्विण्णताभाजौ,
विरक्तौ विषयासवाद् ।
विधूतमोहसम्मोही,
जिनशासनरागिणौ ॥६॥
प्रणिधानकृतप्रेक्षौ,
विघ्नजयजयश्रीषु,
प्रवृत्तिवृत्तिमालिनौ ।
वरौ सिद्धिसमुत्सुकौ ।।७॥
गृहनिर्गमः
એ કાળે ચાણસ્માનો સંઘ દીક્ષાપ્રદાનાદિ કાર્યોમાં अत्यंत उत्साहवंत याने समुद्यत हतो. ॥४॥
भुवनभानवीयमहाकाव्ये
કર્મસંગ્રામ માટે વીર.. રોમાંચિત બનેલ દેહધારીસ્વયંભૂરમણની સ્પર્ધા કરતા સંવેગસાગરથી शोलता.... ॥५॥
ભવનિર્વેદના ભાજન, વિષયાસવથી વિરક્ત, મોહ-સંમોહને ખંખેરી દેનારા, જિનશાસનના रागी.... ॥७॥
પ્રણિધાનમાં મતિ પરોવી દેનારા, પ્રવૃત્તિમાં વર્તનારા, વિઘ્નજયરૂપી જયશ્રીના પ્રિયતમ, સિદ્ધિ भाटे समुत्सुङ....
७
न्यायविशारदम्
एकेन्द्रियाद्युत्तरोत्तरगुरुतरविराधना भावविराधना चाऽप्यनेनैव पथा समुन्नेया विराधनेतरविवेकतः । दुष्प्रतिकारावपि पितरौ धर्मप्रदानत एव प्रत्युपकर्तुं शक्यौ, नाऽन्यथा ।
ननु श्रीवर्द्धमानकुमारज्ञाततः पित्राद्युपरोधत निष्क्रमणविलम्बो विधेयः तदुक्तमावश्यकनिर्युक्तौ - ' अह सत्तमम्मि मासे गब्भत्थो चेव अभिग्गहं गिण्हे । नाहं समणो होहं अम्मापियरम्मि जीवंतेत्ति।। पृ.१७९।। ' महाजनो येन गतः स पन्था' इत्युक्तेरिति चेद् ? उक्तमपि विस्मरणशीलेन विस्मृतं भवता । प्रागेवोक्तं तथाविधपरिस्थितावित्यादि, अन्यथा तत्र मरणापायध्रौव्यात्, तथोक्तं महावीर - चरिये - 'जइ पुण जीवंतेसु वि, समणत्तमहो पवज्जिस्सं । तो मम विरहेण धुवं एए जीयं चइस्संति ।। अत एव तादृशद्रव्यादिकं विजानतो गीतार्थस्यैव दीक्षादानेऽधिकारः, अन्यथैहिकामुष्मिकापायापत्तेः । महाजन० इत्याद्युक्तावपि दुर्बलस्य चक्रिभोजनाद्युपरोधेन सङ्कोच आवश्यकः । किञ्च ऋषभस्वामिदृष्टान्तमपि कथं भवत्स्मृतिं नाऽवतरति ?
एतेन गुरुशुश्रूषोक्तिर्न्याय्यत्वनिरुक्तिश्च प्रत्युक्ते । गीतार्थसम्मतायास्तथादीक्षाया विशेषविषयत्वात्, भावतः तदभावाभावाच्च । नैतत् स्वमनीषिकयोच्यते, उपनिबन्धनमप्यस्याऽऽर्षम् 'एस चाए अचाए, तत्तभावणाओ, अचाए चेव चाए,
मिच्छाभावणाओ' - इत्यादि प्रकटं पञ्चसूत्रे । । ३ - ५ । ।
-
स्वजनप्रच्छन्नप्रव्रज्यौवित्यम्