________________
२८
भुवनभानवीयमहाकाव्ये
बाल्यकालः
विद्या कला च प्रतिभा परा च,
तथाऽपि नाऽभूदभिमानमाली । प्रसङ्गसङ्गात् प्रकटो गुणोऽभूद्,
गुणाढ्यनृणां धुरिताधरस्य ।।७९।।।
વિધા-કલા-પ્રતિભા બધું જ પ્રકૃષ્ટ.. છતાં ચા અભિમાનનો છાંટો પણ નહી. ગુણાઢ્યોમાં પ્રથમ એવા તેમના ગુણ પ્રસંગના સંગે પ્રગટ થતાં.. IIII
स्वस्रा प्रमादात् सलिलस्य कुम्भे,
स्नानस्य गन्धी गुटिका पपात । ज्ञातं च पानेऽग्रजकान्तिनाऽपि,
सङ्गानुरूपो भवतीह रङ्गः ।।८०॥
નાની બહેનથી ભૂલથી પાણીના માટલામાં ન્હાવાનો સાબુ પડી ગયો. સંગ તેવો રંગ.. પાણીમાં તેની સુવાસ પકડાઈ ગઈ ને મોટાભાઈ કાંતિએ पाणी पीत a mein eीg. ||coll
भीतां स तां सस्मितमेवमाह,
બેન તો ગભરાઈ ગઈ. પણ તેમણે તો હસીને “त्वदीयदोषो न मनागपीह । કહ્યું કે “તે કાંઈ ભૂલ નથી કરી. આ પાણીથી सत्क्षालनं मे भविता च कुक्षेः,
તો મારું પેટ ધોવાઈ જશે. તે તો ખૂબ ઉપકાર त्वयाऽस्म्यहं तूपकृतो नितान्तम्" ।।८१।। स्यो.' ||१||
-सङ्घहितम्१. नानी जन २. सामु ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
__ न चैवम्, ततस्तस्योत्तमार्थस्तु दूरापास्तः, पितृत्वाभावे पितामहत्वाभाववत्। वस्तुतस्तु श्रुतचारित्रविकल्पयोर्गुरुप्राधान्यदर्शनादेवैतदपि गतार्थम्, ताभ्यामेव सर्वाराधकत्वयोगात्, उक्तं च - 'श्रुतशीलसमावेशात् सर्वाराधक इष्यत' इत्याराधकविराधकचतुर्भङ्ग्याम् ।।४ ।। अत उत्तमाार्थिना गुरुप्रसादे यतितव्यमित्यत्र निष्कर्षः। ____ आमुष्मिकस्वार्थविकल्पे प्रथमस्त्वनभ्युपगतोपालम्भः, मुमुक्षोस्तदभिलाषविरहात्। द्वितीये दोषाभावः। ननूक्त एव भवमोक्षसमभाव इति चेत् ? न, दशाविशेषे मुक्तिस्पृहाया उचितत्वात्, अप्रशस्तस्पृहाया इतरनिवर्त्यत्वात्, कण्टकन्यायेनाऽनुभवसिद्धमेतत् । अत्युच्चपरिणतेरेव साधोस्तादृक्साम्ययोगात्, न चाऽत्र मानाभावः, भवदुक्तोक्तावेव एव 'मुनिसत्तम'- पदेन तस्य सूचितत्वात् । तथा चाऽत्र शिष्टस्पृहा - 'सिद्धा सिद्धिं मम दिसंतु' - त्ति नामस्तवे ।।७।। 'भवविरहवरं देहि मे देवि ! सार'- मिति हारिभद्रस्तुतौ ।।४।। ___ ननु भवत्वपवर्गविषय: स्वार्थः, गुरुप्रसादस्त्वन्यथासिद्धः, मरूदेव्यादौ तद्विनाऽपि मुक्तिदर्शनादिति चेत् ? न, भावतो भावात्, उक्तवत्, हेतुफलभावसिद्धेः, कारणे कार्योपचाराद् गुरुबहुमानस्य मोक्षत्चेनोक्तत्वात् । तदुक्तं - 'आयओ गुरुबहुमाणो अवंझकारणत्तेण'-त्ति पञ्चसूत्रे।।१।।, तथा – 'तो सेविज्ज गुरुं चिय मुक्खत्थी मुक्खकारणं पढम' - ति पुष्पमालायाम् ।।३५४ ।। ___तथा परार्थाय गुरुप्रसादनम् । तत्र प्रत्युपकाराशंसयेति विकल्पोऽनिष्टः। शेषद्वये प्रथमे ऐहिकादिविकल्पेषु पूर्ववदनुसन्धेयम्, समोत्तरत्वात् । सर्वविषयाऽऽनाशंसा त्वनभ्युपगता, उक्ताभ्युपगमात् । तृतीयस्त्विष्टः, तत्रोक्तव्यभिचारविरुद्धत्वाख्यौ विकल्पौ तु देशनाविकल्पोक्तनीतिना प्रकृताविरोधी। भवत्विदं गुरुप्रसादस्त्वन्यथासिद्ध इति चेत् ? न, तद्विरहितस्य परार्थकरणाऽयोगात्,
प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः