________________
प्रथमो भानु
बाल्यकालः
मनीषिर्मन्दाक्षनिमित्तमेष,
બુદ્ધિશાળીઓ ય શરમાઈ જાય, બૃહસ્પતિ ચ __ मूकीकृतद्वादर्शरुग् बभूव ।
મૂક થઈ જાય એવા, ઉત્તમ એવા આ કાંતિએ सर्वातिशायिप्रतिभाभरेण,
પોતાની બુદ્ધિથી વિશ્વમાં કોને વિસ્મય પમાડ્યા __ न विस्मयं कस्य चकार विश्वे ?।।७७॥ न ता ? ||७|| वस्त्रस्य भूषा रुचिता न तस्मै,
બાળપણથી જ તેમને વસ્ત્રની વિભૂષા પસંદ ના _वस्त्रान्तराधो मलिनाम्बराय । હતી. કોટની નીચે મેલું ખમીશ પહેરતા ને કહેતા चख्यौ जनोऽन्तर्न हि पश्यतीति,
કે અંદર કોણ જોવાનું છે ? ખરેખર, ખૂબ પ્રૌઢ सुप्रौढबालाय नमोऽस्तु तस्मै ।।७८॥ मेवा त GInने नमार.. ||८||
-सङ्घहितम्१. Grn २. वायस्पति (बृहस्पति) ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
किञ्च क्लिष्टकर्मोदयवशेन प्रतिपातसम्भवादनागतकालेऽपि तदर्थित्वमविरुद्धम, सम्भवत्येवं भावातिशयेन रक्षणम् । न चाप्राप्तप्राप्तावेवेह प्रयोजनम्, प्राप्तभ्रष्टस्याऽपि प्रयत्नप्राप्यत्वादिति चिन्तितं चैत्यवन्दनसूत्रवृत्तौ ललितविस्तरायाम्।
एवं च चारित्रिणोऽपि तत्प्रयोजनं तदर्थं च गुरुप्रसादनं सिद्धम् । युक्तं चैतत् तत एव चारित्रश्रद्धास्थैर्ययोगात्। तथोक्तं पञ्चवस्तुकवृत्तौ - ‘गुरुभक्तिबहुमानत एव चारित्रे श्रद्धा स्थैर्यं च भवति, नाऽन्यथा' इति ।।१५।।
अत: सुस्वामिनमिवेभ्यश्चारित्रधनार्थी गुरुं न मुञ्चेत्, अन्यथा तत्त्वायोगात्। कारणत्यागस्य परमार्थतः कार्यत्यागरूपत्वात्। उक्तं च - 'गुरुगुणजुत्तं तु गुरुं इब्भो सुसामियं व ण मुएज्जा। चरणधणफलनिमित्तं पइदिण गुण भावजोएण' - त्ति ।।६८९ ।। पञ्चवस्तुके।
तथोत्तमार्थं गुरुप्रसादनम्, न चोत्तमार्थित्वं साधोरसिद्धम्, तद्विना देशोनपूर्वकोटिकालीनचरणतप:श्रुतपाठादेविफलत्वात्, अनन्तसंसारान्यथानुपपत्तेः। उक्तं च - 'सुचिरं पि तवं चरियं, चिन्नं चरणं सुअं च बहु पढियं ।
अंते विराहइत्ता, अणंतसंसारिणो भणिया।।४८०।।' – त्ति पुष्पमालायाम्। ननु भवतूत्तमाार्थित्वम्, तदर्थगुरुप्रसादनं तु मा भूत्, सति हि धर्मिणीत्यादिना तन्निराकरणादिति चेत् ? न, अभिप्राया-ऽपरिज्ञानात्, तद्विषयबहुमानभावस्यैव तत्प्रसादत्वेनाऽभिप्रेतत्वात्, साक्षात्तदयोगेऽपि तत्प्रसादसम्भवात्, तस्य शिष्यधर्मत्वात्, तद्भावेऽभावाऽयोगात्। एषैव गुरुप्रसादनिरुक्तिः सर्वत्र दृष्टव्या ।
अन्यथा तु गुरुप्रसादनं तदप्रसादाक्षेपकं भवेत्, तथालोकप्रसिद्धत्वात्, अप्रसन्नं प्रति प्रसादनयत्नदर्शनात्, अन्यथा तदयोगात्, भाव्यप्रसादविनिवृत्त्यर्थं वा, तदभावेऽतूभयथाऽप्यनुपपत्तिरिति । ___ आवश्यकश्च तदर्थं गुरुप्रसादः, तद्वत एव तत्साधनात्, तस्यैव चारित्रपरिणामयुक्तत्वेन जीवितमरणयोरपि माध्यस्थ्येन सर्वत्राऽप्रतिबद्धत्वेन तदाराधकत्वात्, अन्यथाऽयोगात्। तथोक्तं - ‘सव्वत्थाऽपडिबद्धो मज्झत्थो जीविए य मरणे य। चरणपरिणामजुत्तो जो सो आराहगो भणिओ।।१६१७।। - त्ति पञ्चवस्तुके। __ युक्तं चैतत्, गुरुबहुमानविरहिण उत्कृष्टोपकारकृत्त्वेन परमबहुमानविषयेऽपि मध्यस्थस्य विरुद्धस्य वातिसङ्क्लिष्टचेतोवृत्तेः कुतश्चरणपरिणामादियोग: ?, निर्हेतुकत्वप्रसङ्गात्, ततश्च नित्यसत्त्वाऽसत्त्वाऽऽपत्तिः। तथोक्तं प्रमाणवार्तिके - नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ।।३-२४५ ।। इति ।
प्रस्तुतमहाकाव्यसाफल्यम्, श्रामण्ये सर्वथा गुर्वाधिपत्यव्यवस्थापनं च- उत्तरपक्षः