________________
८
न्यायाब्धिपारङ्गतधीधनस्य, श्रीवर्द्धमानाख्यतपोनिधेश्च ।
श्रीसङ्घशस्तैकमनोरथस्य,
कन्दर्पदर्पारिमहारथस्य ।। २० ।।
इलोदितादित्यसधर्मणोऽस्य, सुद्योतिताशेषहरिद्ंगणस्य ।
प्रत्येकदेशस्य सुसाधनायाः,
प्रकाशकस्य स्वविभाभरेण ।।२१।।
सत्संयमस्थानगतौ रतस्य,
समुत्सुकस्याऽपि महोदेये च ।
प्रशस्यमोक्षाध्वमहाध्वगस्य,
स्यदप्रकर्षातिसमीरणस्य ।। २२ ।।
भुवनभानवीयमहाकाव्ये
ન્યાયસાગરનો પાર પામેલી મતિના સ્વામિ, શ્રી વર્ધમાન તપોનિધિ, શ્રીસંઘના કલ્યાણની અનન્ય ઝંખના કરનારા.. કામદેવ ને અહંકાર રૂપી શત્રુઓ भाटे महा लडवीर योद्धा समान ॥२०॥
गुरुगरिमा
પૃથ્વી પર ઊગેલા સૂર્ય સમાન.. સમગ્ર દિશાઓમાં ઉધોત કરનારા.. સાધનાના પ્રત્યેક ખંડને પોતાની प्रमाथी प्रकाशित ६२नारा... ॥२१॥
વિશુદ્ધતર સંચમસ્થાનોમાં ગતિ વિષે રમણ કરનારા, મોક્ષ વિષે અત્યંત ઉત્સુક એવા, પ્રશસ્ય એવા મોક્ષમાર્ગના મહા મુસાફર સમા.. પ્રકૃષ્ટ વેગથી વાયુથી ય ચઢિયાતા એવા.. II૨ા - सङ्घहितम्
१. हिशा २. छलांग ३. मोक्ष विषे ४. वेग, प्रराथी जा वेग मोक्षमार्गमां समवो. ५. पवन
न्यायविशारदम्
हिरिपडिच्छायणं चऽहं नो संचाएमि अहिआसित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए' इति आचाराङ्गे ।। १-८-२२५ ।। तथा - 'जंपि वत्थं व पायं वा कंबलं पायपुच्छणं । तं पि संजमलज्जट्ठा धारंति परिहरंति य'- त्ति दशवैकालिके । । ६-१९।। इति चेत्, सत्यम्, गुरुप्रसादस्त्वस्मिन्नन्यथासिद्ध:, तदन्तरेणाऽपि तत्सिद्धेः, रासभमन्तरेण घटसिद्धिवत् । अथ शीतादेस्त्वक्त्राणार्थः, न, प्रतिषेधात्, सोऽपि परीषहसहनविधानात्, तदपि मार्गाच्यवननिर्जरार्थम् । उक्तं च - 'मार्गाऽच्यवननिर्जरार्थं परिषोढव्या परीषहा' इति तत्त्वार्थाधिगमसूत्रे । । ९-८ । ।
युक्तं चैतत्, तथैव जन्ममरणमुक्त्याप्तेः, तदुक्तम् 'अभिभूय काएण परीसहाई समुद्धरे जाइपहाओ अप्पयं दशवैकालिके ।।१०-१४।। नन्वपवादाध्वना तदनुज्ञानं भविष्यतीति चेत् ? न, परीषहाऽसहने कायरताऽभिधानात्, सङ्ग्रामशिरसि हस्तिरत्नमिव तत्सहनोपदेशाच्च । तदुक्तम् 'परीसहा दुव्विसया अणेगे सीयंति जत्थ बहुकायरा नरा । से तत्थ पत्ते न वहिज्ज भिक्खू संगामसीसे इव नागराया' त्ति उत्तराध्ययनेषु । । २१-१७।। नन्वभिप्रायाऽपरिज्ञानविजृम्भितमिदम्, शीतादेस्त्वक्त्राणार्थवस्त्रपरिग्रहे दोषविरहात्, क्षुत्पीडायां भक्तपरिग्रहवत् । अन्यथा तु पिण्डेषणादिविधानं न घटाकोटिमाटीकेत । क्षुत्पीडितस्य सदोषभक्तवर्जनमेव तत्परीषहजयः आगमोक्तविधिना च निर्दोषभिक्षाग्रहणे दोषाभाव:, तस्य रत्नत्रयकारणत्वेन मुक्तः परम्पराकारणरूपत्वात्, निर्दोषतद्ग्रहणस्य विहितत्वात्, तदाह श्रुतकेवली भगवान् श्रीभद्रबाहुस्वामी - 'निव्वाणं खलु कज्जं नाणाइ तिगं च कारणं तस्स । निव्वाणकारणाणं च कारणं होइ आहारो ।। जह कारणं तु तंतू पडस्स तेसिं च होंति पम्हाइ । नाणाइतिगस्सेवं आहारो मोक्खनेमस्स ।।' त्ति पिण्डनिर्युक्तौ ।।६९, ७० ।। तदेतत् वस्त्रपरिग्रहेऽपि तुल्यमिति चेत् ? सत्यम्, प्रस्तुतमहाकाव्यनैरर्थ्यम् - पूर्वपक्ष: