________________
१९४
भानुबन्धचित्रालकार:
भुवनभानवीयमहाकाव्ये
॥ अथ भानुबन्धः।। भुवनभानुभासुरा,
व न नु
दाः कवि भा सु सध धरासु भान्ति भानवः।
भ न न्ति ते वा नभाभ-भाविक
दाः कविभावभानवः ।।१४।। શ્રીભુવનભાનુસૂરિજીના દેદીપ્યમાન કવિના ભાવોની જેવા (સર્વગામી) કિરણો ધરતીઓ પર શોભી રહ્યા છે. તે આપને રત્ન, પર્વત સમાન (જ્યોતિ સ્વરૂપ તથા નિશ્ચય) કલ્યાણ આપનારા थामओ. ||४||
-सङ्घहितम्१. कविभावभानवः तद्रुचयः तत्सदृशा इति यावत्, असदप्राप्या इत्यर्थः । तादृशा: श्रीभुवनभानुसूरे सुरा भानवः धरासु भान्ति, अत्र धरास्विति बहुवचननिर्देश: बहुक्षेत्रसङ्ग्रहार्थः। ते भानवः, व: - युष्माकं नभाभं नं = रत्नम्, भः = पर्वतः, तयोः सदृशं-अनन्तत्वादिगुणज्योति:निश्चलत्वादिगुणयुतमिति हृदयम्, भाविकं-कल्याणं (हैम) तद् ददन्तीति नभाभभाविकदा: 'भवन्तु' इति गम्यते । अत्रत्यं वादस्थलं न्यायविशारदे । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
(९४) भुवनेत्यादि। मोक्षः, न, एकदेशन्यायात् । मान्द्यम्, सत्यम् । प्रदर्शनं, न, स्याद्वादात्। अश्रुतिः, न, जैनोक्तेः । अदृष्टचरः, न, अहेतुत्वात्।।
प्रदर्शिताऽत्र प्राचीनतरन्यायशैली अभ्यासार्थम् । अयमाशयः - ननु बन्धुरत्वे बन्धमुक्तत्वं न हेतुतामेतीति चेत् ? न, तदमुक्तस्य परवशत्वेन क्व बन्धुरतागन्धोऽपि ? अनुभवसिद्धमेतत, तदाह- किं सौन्दर्येण किं श्रियेति-योगसारकारः। प्राकृतजनबन्धुरत्वधियाऽनेकान्त इति चेत, सत्यम, परं तत्त्वचिन्तायां तदनुपयोगः, तत्त्ववित्प्रामाण्यात, तथा चैवमेव बन्धुरत्वमिति सुस्थं हेतुत्वम् । एतदखिलं मनसि निधायाऽऽह पारवश्यादिति।
द्वितीयपादे प्रतितिष्ठति- अथात्र 'प्रभा पुदगलरूपा यत् तद्धर्मो नोपपद्यते।।' इत्यष्टककारवचनविरोधः, गुणानां भानुभिरुपमितत्वादिति । मैवम्, शिष्यानुग्रहार्थकत्वेनादोषः, शाखाचन्द्रन्यायात् । प्रपञ्चितं प्रागिति न प्रतन्यते। तथा संवादात्, इदमुक्तं भवति - ‘स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच्च विज्ञान'-मिति संवादोऽपि।
तृतीयपादकक्षे पूर्वपक्ष: - नन्वत्रासदृशोपमा दोषः, यथा ‘ग्रथनामि काव्यशशिनं विततार्थरश्मिम्' इत्यत्र, तथाप्रतीतिविरहादिति चेत् ? अत्रोच्यते, निर्विशेषप्रसङ्ग:- सर्वसादृश्यदुराग्रहे तूपमानोपमेयभेदविलयापत्तिः। नन्वेवं ग्रथनामीत्यादावपि निर्दोषताप्रसङ्ग इत्याशङ्क्याह बाधाच्च, सहृदयहृदयप्रतीतिरेवात्र बाध इति सूक्ष्मेक्षिकयोभयत्र निरीक्षणीयम। ____ अथ परो भानुबन्धं शरव्यीकृत्य शरसन्धानं विधत्ते - ननु चित्रालङ्कारः साहित्यदर्पणादावन्तर्गडुतयोक्तः, काव्यरसे ग्रन्थिरूपत्वात्, न च मनोरञ्जनकृत्त्वाददोषः, रसाधीनत्वात्, तद्विरुद्धेऽसम्भवात्, विद्वत्प्रतीतिसिद्धत्वाच्चेति चेत् ? न, नायमेकान्तः, प्रायश्चित्रालङ्कारे तद्विरोधदर्शनेऽपि सर्वत्र तथात्वे मानाभावः। स्यादेतत्, कठोरत्व-दुर्बोधत्वे तु दुष्परिहारौ, यदाह सरस्वतीकण्ठाभरणकारः - “दुष्करत्वात् कठोरत्वाद् दुर्बोधत्वाद्विनावधे-रिति चेत् ? न, अनेकान्तादेव, अनेनैव व्यभिचार इत्याशयः, तथा च नात्र रसविरोधः, कठोरत्वं, दुर्बोधत्वं वेति प्रत्यक्षमीक्ष्यते। भवेत्त्वत्र यथा- “न नोननुन्नो-नुन्नेनो नाना नानानना ननु।' इति वर्णचित्रे। नन्वत्र तथा भानुबन्धे तु नेति किं प्रमाणमित्याशङ्क्याह शिष्टाः प्रमाणम्, छद्मस्थानां प्रतीतिशरणत्वात्, तस्या अपि शिष्टासत्काया एव प्रमाणार्हत्वादिति हृदयम् ।
(९४) अथ भवत्प्रतिज्ञातभानुबन्धमोक्षः तद्विघटनं - भङ्ग इति यावत्, कथमिति चेत् ? प्रान्ते विसर्गस्य योजनीयत्वात्, न च स्तोकमेतत्क्षन्तव्यमिति वाच्यम्, मोक्षस्य वज्रलेपायमानत्वादिति। मैवम्, “एकदेशविकृतमनन्यवदितिन्यायात् व-वायोः
भानुबन्धः