________________
पञ्चमो भानुः
- भुवनभानुभक्तामरम्
१५९
तुभ्यं नमो भविकपङ्कजबोधभानो !
तुभ्यं नमो दुरितपङ्कविशोषभानो !। तुभ्यं नमो निबिडमोहतमोहभानो ! तुभ्यं नमो जिन ! भवोदधिशोषणाय
॥२६॥
ભવ્યજીવો રૂપી કમળોને બોધ કરનારા ઓ लानु ! पाप-पं ने शोषवी नामनारा मो मानु! ગાઢ મોહાંધકારનો નાશ કરનારા... ભવોદધિનું શોષણ કરનારા.. જયનશીલ. એવા ઓ ભાનુ તને લાખ લાખ નમસ્કાર. શા
क्षीणाष्टकर्मपदलब्धिविपक्षपक्षो,
ઓ નાથ ! મોક્ષની પ્રાપ્તિના વિપક્ષના जैनेन्द्रशासनमहोदयकार्यहीनः । પક્ષપાતી... જિનશાસનના મહોદય માટેના કાર્ય निष्कार्यवाक् क्षणमपीश ! दिवा सुषुप्तः, विना... निष्ठार। पात २ता.. हिवसे क्षए। भाटे स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि पया पीने सूतता.. म ! आवी स्थितिमा
॥२७॥ आप स्वाभां यहीय वाया नथी. ||२७||
-सङ्घहितम् १. जित्वरार्थोऽभिप्रेतः । 'जिनः स्यादतिवृद्धे च बुद्धे चार्हति जित्वरे' इति विश्वः । अत्र चाहदर्थं विना सर्वेऽपीष्टाः । योग्यार्थत्वे तु तत्रापि सङ्गतिः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
मैवम्, नेयमधिकोपमा, इन्द्राहमिन्द्राणामपि पूजनीयान्महासंयमिनः सकाशात् तदाधिक्यविरहात् । उक्तं चाभियुक्तैः - 'ज्ञानदर्शनचन्द्रार्क-नेत्रस्य नरकच्छिदः । सुखसागरमग्नस्य किं न्यूनं योगिनो हरे' रिति ज्ञानसारे ।। २०-६।। प्रत्युताऽध्यात्मगुणैश्वर्योपेतस्य परमसुखसङ्गतस्य महासंयमिनः पुरो विषयतृष्णातप्तस्य नरकातिथेर्विष्णुप्रभृतेस्तृणायमानत्वेन क्वाऽधिकोपमाऽऽशकाऽपि ? तादृशस्य विष्णोरपि दरिद्रत्वात, यदुक्तम्, 'स तु भवतु दरिद्रो यस्य तृष्णा विशाले' ति भर्तृहरिकृतवैराग्यशतके ।।४९।। तृष्णायोगात तृप्तिविरहितानां तेषां सुखमात्रस्याऽपि दुर्वचत्वम, उक्तं च 'कामैः सतृष्णस्य हि नास्ति तृप्ति' - रिति बुद्धचरिते । अतो विश्वेऽपि विश्वे श्रमण एव सुखी, तथोक्तं ज्ञानसारे - 'सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो ! । भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जनः' ।।१०-८।। इति ।
तत एव हीनोपमादोषोऽस्तु, रवानवलोपमादिवदिति चेत् ? न, प्रतिपाद्यापेक्षयाऽस्याऽदुष्टत्वात्, शाखाचन्द्रन्यायात् । अन्यथा तु भक्तामरस्तोत्रेऽप्यधिकतरप्रसङ्ग इति विवेचनीयम् । रवावनलोपमा तु तथाप्रतीत्यादिविरहाद्धीना, नयाऽपेक्षया तु तस्यामपि न दोषः, पञ्चाग्नितपोविधानवत् ।
ननूपमैव मृषा, 'हीनाधिकाभ्यामुपमा मृषे' ति वचनात्, अभिधेयार्थाव्यभिचारिण एव सत्यत्वात्, ततश्च विष्णुसादृश्यवैतथ्येन प्रकृतस्तुतिरलीकेति चेत् ? न, तद्द्वारेण तत्त्वतस्तदसाधारणगुणाभिधानाद् विनेयविशेषानुग्रहार्थमेतत् । इत्थमेव केषाञ्चिदुक्तगुणप्रतिपत्तिदर्शनात् । चित्रो हि सत्त्वानां क्षयोपशमः । ततः कस्यचित कथञ्चिदाशयशुद्धिभावात, सम्यक शुभभावप्रवर्तकमितरनिर्वतकं च वचनं सत्यमसत्यं वा निश्चयतः सत्यमिति निरुक्तेरेतदुपमाया: सत्यत्वमेवेति स्थितमिति चिन्तितं चैत्यवन्दनसूत्रवृत्ती ललितविस्तरायाम् ।। 'पुरिससीहाणं' व्याख्या ।। न चैतदनार्षम्- 'कप्परुक्खे चेव० नरिंदे 'त्ति ज्ञाताधर्मकथोक्तेः। अत एवाऽस्य सत्यभेदान्तर्गतता, यथोक्तम्- 'औपम्यसत्यं यथा समुद्रवत्तडाग' इति प्रश्नव्याकरणवृत्तौ ।।पृ.११८।।
एतेनासद्भूतगुणोत्कीर्तन - ससङ्गतादोषापादनं प्रत्युक्तम् ।
(२७) सुषुप्तेति । अथेदं प्रत्यक्षविरुद्धभाषितम्, दिवा तत्स्वापस्य दृष्टत्वादिति चेत् ? न, तत्त्वेऽपि तद्विरोधविरहात्, स्वापमात्राऽनिषेधात, सुषुप्तत्वेनोक्तत्वात, पादौ प्रसार्य प्रकटश्वासनिःश्वासनिःस्वाने सुदीर्घकालीने हि स्वापे तत्त्वमिष्यते। यत्र
पुरुषोत्तमौपम्यम्