________________
१०२
परमप्रतिक्रमणम्
भुवनभानवीयमहाकाव्ये
तत्चेतसीषदपि रे ! चलिते कदाचित्,
ક્યારેક જો સૂત્રમાં ઉપયોગ ન રહે, તો ત્યાંથી तत्सूत्रतोऽखिलमहो पुनरेव चक्रे । आणु प्रतिभा शिथी रdi... (Vil ले ? प्रश्नार्थभावसहितं ह्यनुरूपशब्दे,
ઇત્યાદિ ) અનુરૂપ શબ્દોમાં પ્રશ્નનો ભાવ લાવતાં.. चारुप्रतिक्रमणमस्य न कस्य शस्यम् ?।।१०१॥ पुं सुंदर प्रतिभा ! sti aनी प्रशंसा न
इरे ! ||१०१|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(१०१) तच्चेतसीत्यादि । अथाऽयुक्तमिदं, कृतकरणात्, कृष्टक्षेत्रकर्षणवत् । ननु भवतु कृतकरणं मा भूदयुक्तत्वमिति चेत्? न, प्रयोजनाऽभावात्, तथाऽपि करणे वैदग्ध्यविरहात्, तत्र मन्दस्याऽप्यप्रवृत्तेः, 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तत' - इत्युक्तेः । तथाहि यदि कृतमपि क्रियते, क्रियतां सदैव, कृतत्वाविशेषात्, प्राग्वत्, तदुक्तं विशेषावश्यकभाष्ये- 'अहवा कयं पि कज्जइ, कज्जउ निच्चं न य समत्ती ।।' इति ।।४१५।। ततश्च प्रतिक्रमणैकव्यतीतं समग्रजीवनं भवेत्, न चेष्टापत्तिः, तदनभ्युपगमेऽविगानात्, विगाने च प्रस्तुतप्रबन्धस्य मृषात्वापत्तेः, अत्र तदन्यप्रचुरयोगानां तत्कृतत्वेनोक्तेरिति ।४
__ मैवम्, भागासिद्धो हेतुः, कात्य॑करणाऽसिद्धेः, द्रव्यतः कृतत्वेऽपीतराकृतत्वात्, अनुपयोगानुष्ठानस्य द्रव्यत्वात्, तथा चार्षम्'अणुवओगो दव्वमिति कट्टत्ति अनुयोगद्वारसूत्रे ।।१३।।' न च तथाऽपि प्रयोजनाऽभावः, द्रव्यकृतत्वेनैव परितोषात्, क्षेत्रकर्षणवदिति वाच्यम्, दृष्टान्तवैषम्यात्, तत्र तथाऽपि फलसम्भवात्, अत्र च तदसम्भवात्, द्रव्यमात्रकृतत्वात्, अनुपयोगात्, अननुष्ठानत्वात्। तथोक्तमध्यात्मसारे- 'प्रणिधानाद्यभावेन कानध्यवसायिनः । सम्मूर्छिमप्रवृत्त्याभ-मननुष्ठानमुच्यते ।।१०-८ ।।
ननु साम्प्रतं तथैव बहुलक्रियादर्शनात् लोकादरेण सैव सामाचार्यपवादो वाऽस्त्विति चेत् ? न, तत्त्वाभावात्, प्रतिक्रुष्टत्वात् ननु श्रद्धादिहानिमति साम्प्रतकालेऽशुद्धनिषेधात् शुद्धासम्भवाच्च तीर्थोच्छेदाऽऽपत्तिः, ततश्च महाननर्थः, अतस्तदनुरोधेनापि तदनुज्ञानमस्त्विति चेत् ? न, तथा गतानुगतिकत्वेन शुद्धक्रियाविलोपप्रसङ्गात् तथोक्तम् - 'तीर्थोच्छेदभिया हन्ता-ऽविशुद्धस्यैव चादरे । सूत्रक्रियाविलोप: स्याद्, गतानुगतिकत्वत' - इत्यध्यात्मसारे ।।१०-१३।। श्रीगुरुसदृशानां शुद्धक्रियाकराणां सद्भावात् तदसम्भवाऽभावात् तीर्थोच्छेदापत्तेरपास्तत्वाच्च, निश्चयतस्तत्रैव तीर्थसद्भावात्, 'तीर्यतेऽनेन भवसागर' इतिनिरुक्तस्तत्रैव सम्भवात्, अन्यत्राऽसम्भवात् ।
ननु तथाप्यपवादाध्वना तदनुज्ञानमस्त्विति चेत् ? न, तत्राऽपवादाऽसम्भवात्, सूत्रबाधनात्, गुरुलाघवालोचनाऽभावात्, अधिकदोषनिवृत्त्यभावाच्च । तथोक्तं ललितविस्तरायाम् – 'अपवादोऽपि सूत्राबाधनया गुरुलाघवालोचनापरोऽअधिकदोषनिवृत्त्या शुभ: शुभानुबन्धी'त्यादि ।
युक्तं चैतत्, तदितरस्य विपरीतत्वेन जिनोक्तत्वाभावात् अपवादत्वासम्भवात्, उन्मार्गत्वात् ।
ननु द्रव्यकरणे फलाभावः प्रागुक्तः, किन्तु तत्राऽप्यशुभनिवृत्त्यादिना कश्चिद् गुणस्तु भवेदेव, ततः कथं फलाभाव इति चेत् ? न, यत्किञ्चिद्गुणस्य फलत्वाभावात्, कृषौ पलालाप्तिवत्, प्रधानस्यैव फलत्वात्, तत्रैव धान्याप्तिवत्, ततश्च प्रधानत्वात् मोक्षस्यैव फलत्वम्, तत्र च तदभाव: सिद्ध एव । तथोक्तम् - फल प्रधानमेवाऽऽहु - र्नानुषङ्गिकमित्यपि ।
परित्यागात, कृषौ धान्याप्तिवद बुधाः ।। अत एव च मन्यन्ते, तत्त्वभावितबुद्धयः। मोक्षमार्गक्रियामेकां, पर्यन्तफलदायिनीम।। _ नन्वतिदुष्करं भावानुष्ठानं, सत्यन्य उपाये, कस्याऽत्रादर इति चेत् ? न, आदृतस्यात्र प्रबन्ध एव दर्शितत्वात्, भवभीरुजीवेषु तत्सौलभ्यात्, तत्त्वात् । तदुक्तम् - 'तैलपात्रधरो यद्वद्, राधावेधोद्यतो यथा । क्रियास्वनन्यचित्तः स्यात्, भवभीतस्तथा मुनि रिति ज्ञानसारे ।।२२-६।। यच्चोक्तं सत्यन्य उपाय इत्यपि निःसारम्, भावानुष्ठानमन्तरेण तदनुपपत्तेः, ततो नियतोपपत्तेश्च, न ह्युपाय उपेयव्यभिचारी, तत्त्वानुपपत्तेरित्यालोचनीयं पटुप्रतिभया ।
अमृतानुष्ठानम्