________________
९४
प्रत्येककार्यमपि तेन गुरूपदेशात्, गौणीकृतस्वहृदयेन समर्पितेन । ह्यत्यन्तभक्तित उदारहृदा सदैव,
चारित्रपात्रमतुलं गुरुरस्ति मेऽत्र, सिद्धान्तवारिवरवारिनिधिर्ह्यहो ! ऽसौ । अत्यन्तदुष्प्रतिकृतिः सुमहोपकारः, संसारसागरकदर्थितयानपात्रम् ।।८२ ।।
श्री गौतमेशसदृशेन मुदा सुचक्रे । ८१ ।।
-
१. तदा पं. भानुविजयगणिवर्यः ।
भुवनभानवीयमहाकाव्ये
શ્રી ગૌતમ સ્વામિ જેવા એવા તેમણે પોતાની ઈચ્છા
ગૌણ કરી, સમર્પિત રહીને પ્રત્યેક કાર્ય ગુરુની ઈચ્છાપૂર્વક.. અત્યંત ભક્તિથી આનંદથી.. ઉમદા મનથી હંમેશા જ સારી રીતે કર્યું હતું. Il૮૧ll
गुरुभक्तिः
प्रभावकप्रवक्ताऽपि भुवनभानुसूरिपः । तदेव रीतया गत्वा ऽकरोच्च गुरुसेवनम् । । युग्मम् ।। क्वचिदनाप्तवस्त्रोऽसौ, शुशोच स्वं मुहुर्मुहुः । भालेन्दुन्यस्तहस्ताब्जो, 'निष्पुण्योऽस्मि ह हा !' न्विति । । पुण्यशैलोच्चशृङ्गस्थो-ऽपि दध्रे शिबिकां गुरोः । दीर्घदीर्घविहारे सः, मन्यमानः कृतार्थताम् ।।
इति सिद्धान्तमहोदधौ । ।४/५५-६० ।।
ननु च तादृगुच्चपदस्थस्य विदुषः सत्स्वप्यन्यपरिचर्यापरेषु किमनेन गुरुशुश्रूषाऽऽग्रहेणेति चेत् ? न, अनन्तज्ञानिनोऽपि तस्यैव युक्तत्वात्, तद्ग्रहणं च शेषोपलक्षणम्, तथोक्तं- 'जहाहिअग्गि जलणं नमसे नाणाहुइमंतपयाहिसित्तं । एवायरियमुवचिट्ठएज्जा अनंतनाणोवगओ वि संतो- त्ति दशवैकालिके । । ९-११ ।। अत एवोक्तं परैरपि 'किन्तेहि पादसुस्सूसा येसं नत्थि गुरून् इह। ये तप्पादरजोकिण्ण ते 'व साधु विवेकिनो ।।' इति सुबोधालङ्कारे । । ५ । । गुरुभक्तिर्नाम विद्यालाभपरमोपायः, तदुक्तम् 'गुरुवक्त्रे स्थिता विद्या, गुरुभक्त्या तु लभ्यते ।' इति गुरुगीतायाम् ।
ननु पुस्तकादेरपि तत्सिद्ध्यान्यथासिद्धिरिति चेत् ?, तदेतद् दग्धद्रुमे फललिप्सया जलसेचनम्, पूर्वमेवैतदन्यथासिद्धेरसिद्धेः प्रदर्शितत्वात् (पृ.२३)। तथाऽप्यन्यदप्यत्रोच्यते । पुस्तकादिना तत्सिद्धिदर्शनेऽपि तदर्थप्रकाशनाभावात्तत्त्वतोऽसिद्धिः, अर्थप्रकाशने परमदेवगुरुभक्तेरनिवार्यत्वात् । तदुक्तं परैरपि 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाश्यन्ते महात्मनः ।। इति श्वेताश्वतरोपनिषदि । । ६-२३ ।। किं बहुना, मन्दमतयोऽपि यतः मनीषिणां मण्डले स्थानमाप्नुवन्ति तस्या गुरुभक्तेर्माहात्म्यं वक्तुं कः शक्तः ? उक्तं च- 'अम्हारिसा वि मुक्खा पंतीए पंडिआण पविसंति । अण्णं गुरुभत्तीए किं विलसिअमब्भुअं इत्तो ? ।। इति गुरुतत्त्वविनिश्चये । । ९ ।।
न च तन्मात्रमेव, किं तर्हि ? सर्वमपि सुन्दरं गुरुभक्तिप्रभवप्रभावात् सुलभम्, ततो गुरुप्रसादात् तत्सिद्धेः उक्तं च
'गुरुप्रसादात् सर्वं तु प्राप्नोत्येव न संशय' इति स्कन्दपुराणे ।
तस्मादात्महितेच्छुना गुर्वाराधनपरेण भाव्यम्, श्रीपूज्यवदिति निष्कर्षः ।
6
-
કેવા ગુરુ મને મળ્યા ! ચારિત્રના અતુલ્ય पात्र.... सिद्धान्तमहोधि.. महापारी.. अत्यंत દુષ્પ્રતિકાર... સંસાર સાગરમાં કદર્થના પામતા એવા મારા માટે વહાણ સમાન.. ા न्यायविशारदम्
(वैयावृत्योल्लासः
-