________________
तृतीयो भानुः
धर्मशिबिर:
८९
पंन्यासभानुविजयश्च बभूव तत्र,
તે કાળમાં પં. ભાનુવિજયજીએ સૂરિ પ્રેમના यूनां हिताय शिबिरप्रथमप्रणेता । तरनी शुनेछ। मेवी.....सेंsआशिषो श्रीप्रेमसूरिहृदयस्य शुभेच्छया च,
મેળવ્યા. વચનશક્તિ સેંકડો ગણી વધી ગઈ. ह्याशीःशतैः शतगुणप्रवचा महर्षिः ।।६३॥ मने मा महर्षिमे युवापेटीना हित भाटे सौ प्रथम
युग्मम् ॥ शिलिरनी श३मात 5N. ||3||
-सङ्घहितम्१. ते भां.
~~
~~~
~~~~
~~~~~~~~~~~~~~~~~~
न्यायविशारदम
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~
~~
~
(६३) शिबिरेत्यादि । अथ साधोधर्मशिबिरकारणं कर्मबन्धहेतुः, अविहितत्वात, कृष्यादिवत् । न चास्य परोपकाररूपत्वाददोषः, तस्य विहितत्वात्, स्वाध्यायादिवत् । तदुक्तम् - 'गुरुविनयः स्वाध्यायो योगाभ्यासः परार्थकरणं च। इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टे'-ति षोडशकप्रकरणे ।।१३-१।। इति वाच्यम्, अभिप्रायाऽपरिज्ञानात्, विहितानुष्ठानपरस्य साधोभिक्षाटनादेरेव तत्र परोपकारत्वेनोक्तत्वात्। तथोक्तम्- 'विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य। भिक्षाटनादि सर्वं परार्थकरणं यते य'- मिति ।।१३-५ ।। न च धर्मोपदेशस्य विहितत्वेनैतदपि तदन्तर्गत मिति वाच्यम्, तत्र परोपकारस्यैव दुर्घटत्वात्, असङ्ख्य-जीववधाविनाभावित्वात, महामहानसादिकृतविराधनाऽन्वितत्वात् । तथाऽप्यदोषः, जनप्रतिबोधार्थत्वेनाधिकगुणसम्पादकत्वात, कूपखननवदिति चेन्न, निर्मर्यादस्य सावधप्रेरकस्य साधोर्गुणासम्भवात्। मा भूत् साधोर्गुणः, जनानां तु भविष्यतीति चेत् ? न, जिनशासने स्वोपकारस्य मुख्यत्वात् आत्मपरहितयोरन्यतर एव शक्य आत्महितकर्तव्यतानियमान्यथानुपपत्तेः, उक्तं च'अत्तहिय-परहियाणं अत्तहियं चेव कायव्वंति महानिशीथसूत्रे ।।५-१२३ ।। दृष्टान्तवैषम्यं चेत्थमिति।। ____मैवम्, अविहितत्वासिद्धेः साध्याऽसिद्धिः, न ह्यसिद्धमसिद्धेन साध्यते। नन्वस्याऽविहितत्वमुक्तमेवेति चेत् ? सत्यमुक्तमयुक्तं तूक्तम् । यतः कालज्ञस्य साधोस्तथाविधसंयोगे कृत्यमप्यकृत्यमकृत्यमपि कृत्यं भवति । आश्रवसंवरहेतूनां नियमाभावात, व्यभिचारात्। तथोक्तं प्रथमाङ्गे- 'जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा' ।।१-४-२ ।।सू०१३०।। इति अविहित-विहितविभागोऽप्यनेनैव पथोन्नेयस्तयोराश्रवसंवरानुपातित्वात् । तदुक्तम् - 'आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय, उपादेयश्च संवर' इति वीतरागस्तोत्रे ।।१९-४ ।।
तथा चैदङयगीनजनोपकाराय धर्मशिबिरकारणं कालज्ञस्य साधोरावश्यकम, अन्यथा दुःशक्यत्वात्। न चासिद्धता हेतोः, तस्य प्रत्यक्षसिद्धत्वात्, प्रकटा एव दृश्यन्ते धर्मशिबिरफलभूता मार्गानुसारित्व-सम्यक्त्व-देशविरति-सर्वविरत्यादिलाभाः, तद्विना तद-भावोऽल्पता वा । एतेनाऽस्य परोपकाराऽन्तर्गतत्वं व्याख्यातम्। ननूक्तोऽत्र परोपकाराभाव इति चेत् ? उक्तोऽसमीक्ष्य तूक्तः, गीतार्थस्य सर्वत्र लाभालाभविवेकेन प्रवृत्तत्वात् । तदुक्तम्- 'एमेव य गीयत्थो, आयं दटुं समारभइ'- त्ति तथा- 'आयं वयं तुल्लिज्जा लाहाकंखी व वाणियओ'- त्ति उपदेशमालायाम्।।३९२ ।। दर्शितविराधनात्मव्ययाऽपेक्षया प्रोक्तलाभस्याऽनन्तगुणत्वादस्य विहितत्वेनादे-यत्वमनाहतमेव, इत्थमेव पण्डितत्वसिद्धेश्च, तल्लक्षणयोगात, तदुक्तम्- 'अप्पेण बहुमेसेज्जा, एयं पंडितलक्खणं'-ति ब्रह्मप्रकरणे ।।२४१ ।। ___ ततश्चैतत् सर्वेषामपि प्रमाणम्, गीतार्थवृन्देन पुष्टकारणावलम्बनेन गुणदोषविमर्शपूर्वकं कृतत्वात्, तदुक्तं धर्मरत्नप्रकरणे'अवलंबिऊण कज्जं, जं किं पि समायरंति गीयत्था । थेवावराह बहुगुण, सव्वेसिं तं पमाणं तु ।। इति ।।८५।।
अन्यथा तु जिनभवनभञ्जनहेतोवर्द्धमानवृक्षस्य च्छेदस्तथाविधपरिस्थितावपि साधोर्न युज्येत । तथा धर्मपराङ्मुखताप्रयुक्तस्य श्रीसङ्घभञ्जनस्य दारुणत्वं न दुर्वचम्, ततश्च तदुपेक्षाऽपि दोषावहा, इति सूक्ष्मधिया विभावनीयम् । निर्मर्यादस्येत्यादि त्वनभ्युपगमपरास्तम् । धर्मशिबिरकारकस्य साधोस्तदनभ्युपगमात, तस्याऽपि सर्वत्र यतनापरत्वात, इतरसाधुवत, तथा च दोषविरहः,
धर्मशिबिर