SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 1 . व्यवहारस्त्रे उपाध्याये वा मृते सति 'कप्पइ' कल्पते 'आयरियउवज्झायाण' आचीयोपाध्याययोः 'इत्तरिय इत्वरिकां कियत्कालभाविनीम् अल्पकालिकीम् 'यांवदन्यो विशिष्टतर आचार्योपाध्यायपदयोग्यः प्रव्रज्याश्रुताभ्यामेकपाक्षिको न लभ्यते तावत्कालिकीम् इत्वरग्रहणमुपलक्षणं यावत्कंथिका च यावज्जीवभाविनीम् 'दिसं वा अणुदिसं वा' तत्र दिशम् आचार्यत्वमुपाध्यायत्वं वा, अनुदिश वा आचार्योपाध्यायपदद्वितीयस्थानवर्त्तित्वं वा 'उदिसित्तए' उद्देष्टुं कर्तुम्, यद्वा धारिचए वा' स्वयमेव धारयितुम् 'जहा तस्स गणस्स पत्तियं सिया' यथा येन प्रकारेण तस्य गणस्य प्रत्ययं विश्वासः स्यात्, तथा दिशमनुदिशं वा उदिशेत् , मृते आचार्योपाध्याये तत्पदेऽन्य कमपि स्थापयेत् स्वमात्मानं वा स्थापयेत् येन गणस्य विश्वासः स्यात् तथैव कर्त्तव्यम् योग्यस्यैकपाक्षिकस्याभावे भिन्नपाक्षिकमपि अपवादपदेन स्थापयेत्, किन्तु गणमाचार्योपाध्यायशून्यं न कुर्यादिति । अयं भावः-यद्याचार्योपाध्याययोराकस्मिकमरणादिना गच्छे तदभावे जाते सनाथयितुं यावत्पर्यन्तं पदवीयोग्यः श्रमणो न 'मिलेत् तावत्कालं साधारणमपि यस्योपरि गणस्य विश्वामः स्यात् तादृश साधुमाचार्योपाध्यायपदे स्थापयितुं कल्पते अनेन प्रकारेण स्थापितः आचार्यः उपाध्यायो वा इत्वरोऽपकालिक. इति कथ्यते । 'अर्थ यदि कश्चियोग्यः सारणावारणादिगच्छ कार्यदक्षो बहुश्रुत एकपाक्षिकः प्राप्यते यदुंपरि गच्छंस्य विश्वांसश्च स्यात् स यावजीवमाचार्यपदे उपाध्याय पदे वा स्थापयितुं कल्पते, स'च यावज्जीवकः यावत्कथिक इति कथ्यते इति । अत्र प्रव्रज्यया श्रुतेन चेति पदद्वयस्य चतुर्भङ्गी जायते, यथा एकः प्रव्रज्यया श्रुतेन च एकपाक्षिकः १, द्वितीयो न प्रव्रज्यया किन्तु श्रुतेन २, तृतीयः " प्रत्रज्यया किन्तु न श्रुतेन ३, चतुर्थो न प्रव्रज्यया न श्रुतेन ? इति । अत्र प्रथमो भङ्गः 'शुद्धः, 'चतुर्थो भङ्गोऽशुद्धः, ततः आयेषु त्रिषु भङ्गेषु एकैकस्याभावे उत्तरोत्तरो ग्राह्य इति । एकपाक्षिको द्विविधः एकवाचनाक, एकप्रव्रज्याकश्च, तत्र एकवाचनाकः एका समाना परस्परं वाचना यस्य स एकवाचनाकः एकगुरुकुलाधीनः, एकप्रव्रज्याकः एकस्मिन् कुले प्रव्रज्या यस्य स एककुलवर्ती, उपलक्षणात् एकगच्छवर्ती, सहाध्यायी वा गृह्यते इति । गच्छाधिपतिराचार्यों द्विविधो भवति-अभ्युद्यतपरिकर्मा अभ्युद्यतमरणो वा, अभ्युद्यतः उद्युक्तः परिकर्मणि विहारादिपरिकर्मणि यः स अभ्युद्यतपरिकर्माः, द्वितीय. अभ्युद्यतमरणः-अभ्युद्यतः उद्युक्तः मरणे भक्तंप्रत्याख्यानादिना असाध्यरोगविशेषेण वा यः स अभ्युद्यतमरणः । एष एकैको द्विविधः गच्छसापेक्षो गच्छनिरपेक्षो वा. तत्रैको गच्छंन्यवस्थायामपेक्षावान् , मन्यो गच्छयवस्थां प्रति निरपेक्षः स्यात् । यो गच्छसापेक्ष स्यात् सः अभ्युद्यतविहारपरिकर्मा वा अभ्युद्यतमरणो वा 'जीवन्नेव यः कश्चिदेकपाक्षिकः प्रत्याश्रुताम्यां भवेत् स्वपदे पूर्वमेव स्थापयति येन तदनुरक्तो गच्छः कालगतेऽपि तस्मिन्नाचार्य परस्परप्रेमानुभावतो न विनाशमुपैति । यः पुनर्गच्छनिरपेक्षो भवेत्
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy