SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० २ ०२४ पारिहारिकावारिवारिक भोगविधिः ६९ "सगच्छस्य शुभाशुमव्यवस्थामुपेक्ष्य स्वयं जीवन् नान्यं गच्छयोग्यं साधुं स्वपदे युवराजत्वेन स्थापयति तेन तस्मिन् कालगते परस्परकलहभावतो गच्छो विनाशमुपैति तस्माज्जीविते एव स्वस्मिन् आचार्य उपाध्यायो वा स्थापनीय इति । ' प्रस्तुतं सूत्रं तु गच्छनिरपेक्षाचार्यविषयकम् । एवं सति गच्छवासिनो यस्मिन् विश्वासः स्यात्तमेकपाक्षिकम् अपवादे भिन्नपाक्षिकं वा साधुमाचार्योंपाध्यायत्वेन स्थापयेयुः, येनास्वामिको गच्छो न भवेदिति ॥ सू० २३ ॥ सूत्रम् - बहवे परिहारिया बहवे अपरिहारिया इच्छेज्जा एगयओ एगमासं वा दुमासं वातिमा वा चाउम्मास वा पंचमासं वा छम्मांसं वा वत्थए ते अन्नमन्नं संभु"जंति अन्नमन्न 'नो संभुजति मासते तओ पच्छा सव्वेवि एगयओ संर्भुजंति ॥ सू० २४ ॥ छाया -- वहवः पारिहारिकाः बहवोऽपारिहारिकाः इच्छेयुः एकत्र एकमासं वा द्विमासं घा त्रिमास वा चतुर्मासं वा पंचमासं वा षण्मासं वा वस्तुम् ते अन्योऽन्य संभुञ्जते अन्योन्यं नो संभुञ्जते मासान्ते ततः पश्चात् सर्वेऽपि एकत्र संभुञ्जते ॥ सु० २४ ॥ * भाष्यम्- -' बहवे परिहारिया ' ' बहवोऽनेके द्वित्रादयः पारिहारिका: : संप्राप्तपरिहारतपः प्रायश्चित्तवन्तः 'वहवे अपरिहारिया' बहवः प्रभूता द्वित्रादयोऽपारिहारिकाः पारिहारिकभिन्नाः दोषाभावात् परिहारेतपोवर्जिताः शुद्धा इत्यर्थः सर्वे ते अशिवादिकारणवशात् तपोवननिमित्तं वा 'इच्छेज्जा' इच्छेयुः, किंमिच्छेयुस्ते सर्वे ! तत्राह - ' एगयओ' इत्यादि, 'एगयओ' एकतः एकत्रस्थाने ‘एगमासँ वा' एकमांसं वा मासैकमात्रं ' वा 'दुमासं वा' द्विमासं वा मासद्वयं 'वेत्यर्थः 'तिमोसं वा' त्रिमासं वा मासत्रयमित्यर्थः, 'चाउम्मासं वा' चतुर्मासं वा मासचतुष्टयं ज्यावदित्यर्थः ‘पंचमासं वा' पञ्चमासं वा मासपञ्चकमित्यर्थः, 'छम्मासंवा' षण्मासं वा मासषट्कं वा 'वत्थंए ंवस्तुं यावद् अशिवादि निवर्त्तेत तावत् एकत्र वासं कर्त्तुमिति, तत्र 'ते अन्नमन्नं संभुजति' -इतिं ते पारिहारिकाः अन्योऽन्यं परस्परं पारिहारिकाः पारिहारिकैः सार्धं 'सभुजंते' सर्वप्रकारैः संभोगं कुर्वन्ति “तेषां सादृश्यात्, 'अन्नमन्नं नो संभुजति' इति पारिहारिकाः यावत् कलिपर्यन्तं परिहारतपो वर्हति तावत्पर्यन्तं ते परस्परं पारिहारिकाः पारिहारिका मिलिवा संभुञ्जते इत्यर्थः वा 'अथवा अपारिहारिकैः साकं न संभुञ्जते । अयं भावः: - ये प्रतिपन्न परिहारतपोवन्तस्ते, तथा ये परिहारतपोऽधुना न वोढुमारब्धवन्तस्ते, एते परस्परं न संभुञ्जते, एवं पारिहारिका अपारिहा'रिकाश्च एंतेऽपि परस्परं न संभुञ्जते इति । प्रतिपन्नपरिहारतपसः पारिहारिकास्तु परस्परं समुज्जते इंति पूर्वमुक्तमेवेति । 'मासंते' यैः षण्मासा. सेविताः तेषां यः षण्मासोपरिवर्ती मासस्तं यावत्, षण्मासोपरि एकमासपर्यन्तमित्यर्थ ते पारिहारिकाः परस्परं पारिहारकैः सममपारिहारिकैर्वा संममेकत्र न संभुञ्जते, आलापादीनि तु परस्परं 'कुर्वन्ति । 'तओ पच्छा' ततः पश्चात् पण्मासोपरि मासपरिपूर्णानन्तरम् 'सव्वेवि एगयओ संमुंजंति सर्वेऽपि प्रतिसेवित परिहारतपसः अपरिहारिकाश्चैकतः एकत्र स्थाने संभुञ्जते सर्वप्रकारै. संभोगं कुर्वन्ति, अत्र ये पारिहारिका -
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy