________________
भाष्यम् उ०२ सू० २६
मृत आचार्यादौ तत्पप्रदानविधिः ६७ पुच्छियव्वे' तन्निर्णयाय स एव यः अवधावितः स एव, अथवा अस्य साधू साक्षिरूपेण प्रेषितो भवेत् स वा साधुः प्रष्टव्यः। किं प्रष्टव्यः ? तत्राह-'किं पडिसेवी ? अपडिसेकी' ! प्रथमं तमेवाऽऽह्य गणनायकेन स प्रष्टव्यः-किं भोः! त्वमत्रतो गत्वा अकृत्यं प्रतिसेवितवानसि ! अथवा न प्रतिसेवितवानसि! । यस्तेन साघ गतः सोऽप्येवमेव प्रष्टव्यः-यदयम् अकृत्य प्रतिसेवितवान् ! न वे? ति । उपर्युक्तप्रकारेण सत्यस्वरूपं ज्ञातुं गणनायकेन पृष्टः सन् ‘से य वएज्जा' स च वदेत् , स पृष्टः साधुर्यदि वदेत्-'पडिसेवी' प्रतिसेवी अहमकृत्यप्रतिसेवनां कृतवानस्मि तदा 'परिहारपत्ते' परिहारप्राप्तः परिहारतपोयोग्यो जातः, आचार्येण पृष्टः प्रतिसेवको यदि स्वीकरोति प्रतिसेवनां तदा तदीयमेव वचन प्रमाणीकृत्याऽऽचार्यः तस्मै परिहारनामकं तपः प्रायश्चित्तरूपेण दद्यादिति भावः । 'से य वएज्जा नो पडिसेवी नो परिहारपत्ते' स च यदि वदेत् नो प्रतिसेवी तदा नो परिहारप्राप्तो भवति, न परिहारतपःप्रायश्चित्तभाग् भवति । आचार्येण पृष्टः सः यदि कथयेत्यत् नाहमकृत्यं प्रतिसेवितवानस्मि तदा तद्वचनमेव प्रमाणीकृत्याऽऽचार्यों नो परिहारतपो दद्यात् , तस्मैं अप्रतिसेवकाय परिहारनामकं तपो न दयादिति भावः । कथमेवम् ? तत्राह-'जं से इत्यादि, 'जं से पमाणं वयइ से पमाणाओ घेत्तव्वे' यत्स प्रमाण वदति तस्मादेव प्रमाणात् स सत्योऽसत्योवेति निश्चेतव्यः, तद्वचनप्रमाणेनैव सत्यार्थाऽसत्यार्थयोनिर्णयः कर्त्तव्य इति भावः ।
से कि माह भंते !' अथ किमर्थं कस्माद्धेतोरेवमाहुर्भदन्त ! हे भदन्त ! कथमेवमुच्यते यत् तस्य वचनप्रमाणेनैव सत्यासत्यनिर्णयः कर्तव्यः ? यावता एवं सति कुत्रापि सत्यार्थनिश्चयो न स्यात् नहि कोऽपि स्वकृतमकृत्यस्थानप्रतिसेवनं प्रकाशयिष्यति लजया लोकनिन्दाभयाद्वा तत्कथमेवं तद्वचनमेव प्रमाणीक्रियते भवता ? इति शिष्यस्य जिज्ञासायामाचार्यः प्राह-'सच्चपइण्णा ववहारा' सत्यप्रतिज्ञा व्यवहाराः प्रायश्चित्त रूपा व्यवहाराः सत्यप्रतिज्ञाः प्रतिज्ञयैव सत्या जिनैर्निर्दिष्टाः ॥ सू० २२.॥ ,
दिवंगते आचार्योपाध्याये तत्पदेऽन्याचार्योपाध्यायस्थापनविधिमाह-'एगपक्खियस्स'इत्यादि ।
सूत्रम्-एगपक्खियस्स भिक्खुयस्स कप्पइ आयरियउवज्झायाण इत्तरिय दिसं वा अणुदिसं वा उदिसित्तए वा धारित्तए वा जहा बा तस्स गणस्स पत्तियं सिया ॥ सू०२३॥
छाया-एकपाक्षिकस्य भिक्षुकस्य कल्पते आचार्योपाध्यायानाम् इत्वरिकां दिशं अनुदिशं वा उद्देष्टुं वा धारयितुं वा यथा वा तस्य गणस्य प्रत्ययं स्यात् ॥ सू० २३॥
भाष्यम्-'एगपक्खियस्स' एकपाक्षिकस्य एकः समानः पक्ष इत्येकपक्षः सोऽस्त्यस्येत्येकपाक्षिकः प्रव्रज्यया श्रुतेन च, तस्य इत्थंभूतस्य 'भिक्खुयस्स' भिक्षुकस्य आचार्य