SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे तस्याभ्याख्यानदातुर्मूलं प्रायश्चित्तं न दीयते किन्तु तस्मै अलीकनिमित्तकं मृषावादप्रत्ययं चतुर्गुरुकं प्रायश्चित्तं दातव्यमिति ॥ सू० २१॥ पूर्व मैथुनाम्याख्यानविषये सनिर्णय प्रायश्चित्तविधिरुक्तः, संप्रति-अवधावकविषयं तद्विधिमाह-'भिक्खूयय' इत्यादि । सूत्रम्-भिक्खू य गणाओ अवक्कम्म ओहाणुपेही वएज्जा, से आहच्च अणोहाइओ से य इच्छेज्जा दोच्चंपि तमेव गण उपसंपज्जित्ता णं विहरित्तए । तत्थ ण थेराणं इमेयारूवे विवाए समुप्पज्जिज्जा-इमं अज्जो ! जाणह किं पडिसेवी किं अपडिसेवी ? से य पुच्छियन्वे-किं पडिसवी किं अपडिसेवी ? से य वएज्जा पडिसेवी परिहारपत्ते, से य वएज्जा नो पडिसेवी नो परिहारपत्ते, जं से पमाणं वयइ. से य पमाणाओ घेतव्वे, से किमाहु भंते ! सच्चपइण्णा ववहारा । सू० २२॥ __ छाया-भिक्षुश्च गणावक्रम्याऽवधावनानुप्रेक्षी व्रजेत् सः आहत्य अनवधावितः स इच्छेत् द्वितीयमपि तमेव गणमुपसंपद्य खलु विहर्तुम् , तत्र खलु स्थविराणामयमेतद्रपो विवादः समुत्पद्येत-इदम् आर्य ! जानासि किं प्रतिसेवी अप्रतिसेवी ? स च प्रष्टव्यः कि प्रतिसेवी अप्रतिसेवी ?, स च वदेत् प्रतिसेवी परिहारप्राप्तः, स च वदेत्-नो प्रतिसेवी नो परिहारप्राप्तः, यं स प्रमाणं वदति तस्मात् प्रमाणात् ग्रहीतव्यः । अथ किमाहुर्भदन्त ! सत्यप्रतिज्ञा व्यवहाराः ॥ सू० २२ ॥ भाष्यम्-'भिक्खू य' भिक्षुश्च 'गणाओ अवक्कम्म' गणात् स्वकीयगच्छात् अपक्रम्य निःसृत्य 'ओहाणुपेही वएज्जा' अवधावनाऽनुप्रेक्षी व्रजेत् तत्राऽवधावनम् संयमादसंयमे गमनं तदनुप्रेक्षी सन् व्रजेत् गच्छेत् , मोहोदयाद् भोगावलिकर्मोदयाद्वा संयमत्यागेच्छया गच्छेदित्यर्थः, 'से आहच्च अणोहाइओ' स आहत्य-कदाचित् अनवधावितः स प्रबलशुभकमोंदयाद् विषयवाञ्छोपशमनेन असंयममप्राप्तः, एतादृशः 'से य इच्छेज्जा' स च पुनरपि इच्छेत् , किं पुनरिच्छेत् ? तत्राह-'दोच्चपि' इत्यादि, 'दोच्चपि तमेव गणं उवसंपज्जित्ता ण विहरित्तए' द्वितीयमपि वारं पुनरपि तमेव गणमुपसंपद्य खलु विहत्तु स्थातुम् शुभकर्मोदयात् संघाटकोपदेशादा अपरित्यकसाधुलिङ्गः पापाप्रतिसेवी एव पुनरपि तमेव गणमागत्य संयम पालयितुमिच्छेत् इत्यर्थः, तस्यागमने 'तत्थ णं' तत्र खलु गच्छे विद्यमानानाम् 'थेराणं' स्थविराणां 'इमेयारूवे' अयमेतद्रूपः वक्ष्यमाणस्वरूपः 'विवाए' विवादः अनेकप्रकारक ऊहापोहलक्षणः 'समुपज्जिज्जा' समुत्पधेत, कीदृशो विवादः समुत्पद्येत ? तत्राह-'इमं अज्जो' इत्यादि, 'इमं अज्जो, जाणह' इदं भो आर्याः ! यूयं जानीत 'किं पडिसेवी अपडिसेवी' किमयं प्रतिसेवी अत्रतो गत्वा अकृत्यप्रतिसेवन कृतवान् ? अथवा 'अपडिसेवी' अप्रतिसेवो अकृत्यप्रतिसेवनं न कृतवान् वा ? इत्याकारको विवादः उहापोहरूपः परस्परं समुत्पद्येत तदा एवमुपर्युकप्रकारेण विवादे जाते सति ‘से य
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy