________________
भाष्यम्,उ१-२ सू० २१-२२
मैथुनाभ्याख्याने तन्निर्णयविधिः ६५, सेविनमभिभन्येत । इत्याकारको यः प्रत्ययो विश्वासः स सर्वेषां भवतु, अस्मादेव कारणात् स्वस्याप्यकृत्यं भणति । एवमुक्ते तस्मिन् आचार्य. कि कुर्यादित्याह-'तत्थ' इत्यादि, 'तत्थ पुच्छियव्वे' तत्र, तादृशपरिस्थितिप्रसङ्गे. यस्योपरि अभ्याख्यानं तेन दत्तं स समाहृयाचार्येण प्रष्टव्यः, कथं प्रष्टव्यः ? इत्याह-'किं पडिसेवी अपडिसेवी' किं भवान् प्रतिसेवी, वा अथवा अप्रतिसेवी ? इति, . भवान् मैथुन सेवितवान् वा-अथवा न सेवितवान् ? एवं पृष्टे सति यदि-से य वएज्जा पडिसेवी, परिहारपत्ते' स च, वदेत् प्रतिसेवी सत्यमयं वदति । इत्येवं कथने स साधुः परिहारप्राप्तः परिहारतपोयोग्यो भवति ततः तस्मै तदकृत्यप्रतिसेवनजनितपापान्निवृत्त्यर्थ परिहारनोमकं तपः प्रायश्चित्तरूपेण दातव्यम्, उपलक्षणमेतत् तस्मात्. छेदमूलाऽनवस्थाप्यपाराश्चितनामकमपि प्रायश्चित्तं यथोचितमकृत्यप्रतिसेवकाय आचार्येण दातव्यमिति भावः ।, अथ च से य वएज्जा णो पडिसेवी णो परिहारपत्ते स च वदेत् नो प्रतिसेवी, नाहं प्रतिसेवी, अभ्याख्यानमात्रमेतत् , इति वदेत् तदा स न परिहारप्राप्तः परिहारनामकतपोभाग् न भवति । अथेवं स्थिते, कथं निश्चेतव्यं यद्यमकृत्यस्थान प्रतिसेवितवान् न वा ? तत्राह-'जं से पमाण' इत्यादि, जं से पमाणं वयइ से य पमाणाओ घेतत्वे सिया' सः प्रतिसेवी यत् प्रमाणं वदति तस्मात् प्रमाणात् स.ग्रहीतव्यः, स च अभ्याख्यानदाता प्रतिसेवनायाः प्रमाण वदति कथयति, तस्मात् प्रमाणात्गृहीतव्यो निश्चेतन्यः स्यात् , तथा प्रतिसेवकस्य कथनानुसारेणैव निश्चयः कर्तव्यः यदयं मैथुन प्रतिसेवितवान् , यद्वा न प्रतिसेवितवानिति, तत्र यदि प्रमाणाद् एवं निश्चयो जायते यदयं मैथुन प्रतिसेवितवान् तदा तस्मै परिहाराद्यन्यतमप्रायश्चित्तं यथायोग्य दातव्यम् , यद्यत्र प्रमाणात् अयमकृत्यस्थानं न प्रतिसेवितवान् इत्याकारको निषेधविषयको निश्चय आचार्यस्य भवेत् तदा तस्मै परिहारादि प्रायश्चित्तं न दातव्यमिति भावः । तद्वचनादेव सर्वव्यवस्था कर्तव्या भवेदिति । शिष्यः पृच्छति-से किमाहु भंते' अथ किमाहुर्भदन्त ? अथ कस्मात् कारणात् भवान् एवं कथयति. यत् तत्कथनानुसारमेव प्रायश्चित्तं दातव्यं न वा दातव्यमिति अत्र किं कारणम् ? आह-सच्चपइण्णा व्वहारा' सत्यप्रतिज्ञाः व्यवहारा., हे शिष्य । व्यवहाराः जिनशासनव्यवहाराः सत्यप्रतिज्ञाः सत्यप्रतिज्ञावन्तस्तीर्थकरैर्दर्शिता इति सत्यमेव प्रतिज्ञा प्रमाणं ये ते सत्य प्रतिज्ञाः व्यवहाराः सत्यमूलका एवैते जिनशासने प्ररूपिता इति । अत्र कश्चित् शकते-किमर्थमेकः साधुरन्यस्मिन्नभ्याख्यानमारोपयति । तत्रेदं कारणं संभवेत् यः कश्चित् रत्नाधिकः अन्य रत्नाधिकमीjया अवमरत्नाधिकं कर्तुमिच्छेत्-यदहं रत्नाधिकोऽस्मि नायं रत्नाधिक इति गर्वेण कषायोदयेन वा एव कुर्यात् । अत्राय भावः सद्भतार्थे ज्ञाते सति यदि तत्प्रतिसेवनं द्वयोः सत्यं भवेत्तदा द्वयोरपि मूलं दीयते । अथालोकमभ्याख्यानं तदा योऽभ्याख्यातः स शुद्ध इतरोऽशुद्धः ।