________________
भाष्यम् उ० २ २० २१
द्वयोमैथुनाभ्याख्याने निर्णयविधिः ६३
'पारंचियं भिक्खं पाराञ्चितं भिक्षु दशमप्रायश्चित्तस्थानप्राप्तं श्रमणम् 'गिहिभूय गृहीभूनं गृहस्थलिङ्गे वर्तमानं पुनः संयमप्रत्तिपत्तये गणनायकस्य समीपमागतम् 'कप्पई' कल्पते 'तस्स गणावच्छेयगल्सतस्य गणावच्छेदकस्य 'उवट्ठावित्तए' उपस्थापयितुं पुनः संयमे स्थापयितुं . कल्पते इति पूर्वेण सम्बन्धः ।। सू० १९ ॥
सम्प्रति सूत्रकारः स्वयमेव अनवस्थाप्य-पाराश्चितविषयेऽपवादमाह-'अणवढप्यं' इत्यादि।
सूत्रम्-अणवठ्ठप्पं भिक्खु पारंचियं वा भिक्खु गिहिभूयं वा अगिहिभूयं वा कप्पइ तस्स गणावच्छेयगस्स उवठ्ठावित्तए जहा तस्स गणस्स पत्तियं सिया ।। सु० २०॥
छाया-अनवस्थाप्यं भिक्षु पाराञ्चितं वा भिक्षु गृहीभूतमगृहीभूतं या कल्पते तस्य गणावच्छेदकस्योपस्थापयितुम् , यथा तस्य गणस्य प्रत्ययं स्यात् ।। सू०२०॥
भाष्यम् -'अणवठ्ठप्पं अनवस्थाप्यम्-अनवस्थाप्यनामकनवमप्रायश्चित्तस्थानप्राप्तं भिक्षम . एवं पाराश्चितं वा दशमप्रायश्चित्तस्थानप्राप्तं वा भिक्षु 'गिहिभूयं वा' गृहीभूतं वा गृहस्थलिङ्गधारिणं वा 'अगिहिभूयं वा' अगृहीभूतं वा गृहस्थलिगरहितं साधुवेषे एव स्थितं वा 'कप्पड तस्स गणावच्छेयगस्स' कल्पते तस्य गणावच्छेदकस्य 'उवदावित्तए' उपस्थापयितं पुनरपि संयमे प्रवेशयितुम् । कथं पुनस्तौ उपस्थापनायोग्यो भवेताम् ? तत्राह -'जहा' इत्यादि । 'जहाँ तस्स गणस्स पत्तियं सिया' यथा येन प्रकारेण तस्य गणस्य यस्य स उपस्थापनीयो विद्यते तस्य गणस्य प्रत्ययं प्रतीतिः तद्विषयको विश्वासः स्यात् , तथा कृत्वा कल्पते नान्यथा । अत्र यद् अगृहीभूतस्योपस्थापनं कथितं तद् अपवादविषयकं स्यात् तस्योत्सर्गतः प्रतिषिद्धत्वात् ।
अयं भावः -नवमप्रायश्चित्तस्थानप्राप्तं दशमप्रायश्चित्तस्थानप्राप्तं वा भिक्षु गृहस्थलिङ्गवन्तं कृत्वा, यद्वा-गृहस्थलिङ्गवन्तमकृत्वैव गणनायकस्य कल्पते पुनस्तं सयमे उपस्थापयितुम् , तदत्र कारणमाह-यदि स नवमदशमप्रायश्चित्तापन्नः श्रमणः राज्ञ उपकारी भवेत् तदा राजानुवृत्त्या तमगृहीभूतमेवोपस्थापयितुं कल्पते । यद्वा स अन्यतैर्थिकैः सह वादे वादलब्धिमान् भवेत् , तैः सह वादकरणं साधुवेषेणैवोचितं भवेत्तदा तस्य प्रवचनप्रभावकत्वादगृहीभूतस्यैवोपस्थापनं कल्पते, इत्यादिप्रवचनप्रभावनारूपकारणैरेवं करणे गणस्य विश्वासो भवेदिति । - यद्वाऽन्यदपि कारणं भवेद् यथा-यदि कश्चिदाचार्यो नवमप्रायश्चित्तस्थानं दशमप्रायश्चित्तस्थान वा समापद्य गणावच्छेदकसमीपे तत्प्रायश्चित्तार्थ समुपस्थितो भवेत्तस्य गृहस्थलिङ्गदाने तस्य शिष्या विदेयुः-यदि ममाचार्य गृहस्थलिंगं करिष्यथ तदा समुद्यता वयमधिकरणमुत्पादयिष्यामः, एवं करणेऽस्माकमाचार्यस्य प्रायश्चित्तं लोके प्रकाशितं भविष्यति तेन लोके शङ्का