SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे पूर्वार्द्धभागेनेदं प्रतिपादितं यत् अनवस्थाप्यो भिक्षु. संयममार्गात् भ्रष्टत्वेन नवमप्रायश्चित्तभागी भवति स यदि साधुवेषेण समागत्य पुनः संयमप्रतिपत्यर्थ गणनायकस्य समीपमागच्छेत् तदा नास्ति अधिकारो गणनायकस्य यत्पुनरपि तथाविधं तं संयमे उपस्थापयेत् ।। इदानीं प्रकृतसूत्रस्यैवोत्तरभागेन चेदं प्रतिपादितम्-यत्-यधनवस्थाप्यो भिक्षुर्गृहस्थवेषमादाय गणनायकस्य समीपं पुन. संयमप्रतिपत्यर्थमुपस्थितो भवेत् तदा गणनायकेन तथाभूताय तस्मै पुनरपि संयमो दातव्यः । तत्र केन प्रकारेण पुनः स चारित्रे उपस्थापनीयः । तदेवोत्तरभागेन प्रतिपाद्यते-नवमप्रायश्चित्तस्थान प्राप्तं श्रमणं गृहस्थवेषसदृश वेषं कारयित्वा गणावच्छेदकस्तं संयमे उपस्थापयेत्। गृहस्थवेषं कारयित्वा पुनः तस्मै दीक्षादाने कारण मदम् यत्-अनवस्थाप्यश्रमणस्य ये दोषास्ते नागरिकाणां समक्षं प्रकटीभूता आसन् ततो गृहस्थलिङ्गधारणेन तेषां नगरलोकानां विश्वासो जायेत यदनेन नवमप्रायश्चित्तभागित्वेन वान्तसंयम इति, ततः संघसमक्षं गणनायकेन तस्मै प्रायश्चित्तं दातव्यम् , दत्त्वा च प्रायश्चित्तं पुनस्तं संयमे उपस्थापयेत् । एवं करणे नान्येऽपि गच्छगता साधव एतादृशपापा चरणाद् भीता भवेयुः, 'पुत्रीभ्यो दण्डदानेन स्नुषा विभ्यति नित्यशः' इति न्यायात् ॥ सू० १८ ॥ अनवस्थाप्यसूत्रमुक्त्वा सम्प्रति पाराञ्चितसूत्रमाह - पारंचियं' इत्यादि । सूत्रम्-पारंचियंभिक्खुं अगिहिभूयं नो कप्पइ तस्स गणावच्छेयगस्स उवहावित्तए पारंचिंय भिक्खं गिहिभूयं कप्पई तस्स गणावच्छेयगस्स उवठ्ठावित्तए । सू० १९ ।। छाया-पाराञ्चितं भिक्षुमगृहीभूतं नो कल्पते तस्य गणावच्छेदकस्योपस्थायितुम् । पाराधितं भिभुगृहीभूतं कल्पते तस्य गणावच्छेदकस्योपस्थापयितुम्॥ सू० १९ ॥ भाष्यम्-'पारंचियं' पाराञ्चितं पाराञ्चितनामकदशमप्रायश्चित्तस्थानप्राप्तम् 'भिक्खं' भिक्षु श्रमणम् 'अगिहिभूय' अगृहीभूतम् अपरिगृहीतगृहस्थवेषम् 'नो कप्पई' नो कल्पते 'तस्स गणावच्छेयगस्स' तस्य गणावच्छेदकस्य 'उवटावित्तए' उपस्थापयितुं पुनः संयमे प्रवेशयितुम् । यदि कदाचिद् यः कश्चित्साधुदशमपाराञ्चितप्रायश्चित्तस्थान प्राप्तवान् , प्राप्य चाऽगृहीत गृहस्थवेष एव प्रायश्चित्तं ग्रहोतुं पुनः संयमं प्रतिपतुं च गणनायकसमीपे समुपस्थितो भवेत् स यावत्पर्यन्तं गृहस्थवेषं न परिधारयेत् , साधुवेषे एव व्यवस्थितो भवेत् तावत्पर्यन्तं गणनायको न तमुपस्थापयेत्, न कथमपि संयमं तस्मै दद्यादितिभाव. । कथम्भूतं पाराञ्चितमुपस्थापयेदिति सूत्रोत्तरार्द्धनाह –'पारंचियं' इत्यादि ।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy