SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ भाष्यम् - २०१८-२० अनवस्थाप्य वराञ्चितयोः पुनरुपस्थापनविधिः ६१ पूर्वसूत्रेऽर्थजात भिक्षोर्वैयावृत्यकरणं प्रोक्तम् साम्प्रतमनुवस्थाप्यस्योपस्थापनविधिमाह, तत्राऽनवस्थाप्यसूत्रस्यार्थजातसूत्रेण सह कः सम्बन्धः इति सम्बन्धप्रतिपादिकां गाथामाह 'अजाओ' इत्यादि । 2 1. गाथा - अजाओ पुत्रमुत्तो, अहस्स तेणियं भवे । तत्तेणे अणवटुप्पो संबंधोत्थ इमो सिया ॥ १ ॥ छाया - अर्थजातः पूर्वमुक्तः अर्धस्य स्तैन्यं भवेत् । तत्स्तैन्येऽनवस्थाप्यः सम्वन्धोऽत्रायं स्यात् 11211 है व्याख्या -- 'अजाओ' पूर्वमर्थजातो मिक्षुरुतः अर्थजात भिक्षुविषये विधिः प्रोक्तः, अर्थस्य घनस्य कदाचित् स्तैन्यं चौर्यं भवेत्, तत तत्स्तैन्ये धनस्य चौर्ये भिक्षुरनवस्थाप्यो नवमप्रायश्चित्तभाक् स्यात्, अतोऽस्मिन् वदयमाणे सूत्रे अनवस्थाप्यभिक्षुविषये विधिः प्रतिपादयिष्यते । अयमेवात्र संबन्ध. स्यादिति गाथार्थः ॥ १ ॥ ÷ अनेन सम्बन्धेनायातमिदमनवस्थाप्यसूत्रमाह- 'अणवटुप्प' इत्यादि । सूत्रम् - अणवपं भिक्खु अगिहिभूयं नो कप्पइ तस्स गणात्रच्छेयगस्स उवट्ठावेत्तए । अणवट्टप्पं भिक्खुं गिरिभूर्यं कप्पेइ तस्स गणावच्छेयगस्स उवट्ठावित्तए । ० १८ ॥ * छाया - अनवस्थाप्य - भिक्षुम् अगृहीभूतं नो कल्पते तस्य गुणावच्छेदकस्योपस्थापयितुम् । अनवस्थाप्यं भिक्षु गृहीभूतं कल्पते तस्य गणावच्छेदकस्योपस्थापयितुम् ॥ सु०१८ || " C सः, भाष्यम् – ‘अणवट्टप्पं’ अनवस्थाप्यम् - गृहिणः साधर्मिकस्य वा चौर्येण अनवस्थाप्यः नामंकनवमप्रीयश्वित्तस्थानापन्नं भिक्खु" भिक्षु 'अंगिहिभूयं अगृहीभूतम् अप्राप्तगृहस्थवे साधुपर्याये एव स्थितम् साधुवेपत्यागयोग्ये नवमप्रायश्चित्ते प्राप्तेऽपि यः साधुवेपं न त्यक्तवान् तं तादृश भिक्षु' 'नो कप्पड़' 'नो कल्पते "तस्स' गणावच्छेयगस्स' तस्य गणावच्छेद्'कस्य 'उवडावेत' उपस्थापयितुम् मद्दात्रतेषु समारोपयितुम् पुनर्दीक्षां दातुमित्यर्थः । अयं भावः -- यदि कदाचिद् अनवस्थाप्यो भिक्षु धौर्यदोषशुद्धयर्थं पुनश्चारित्रप्रतिपत्तये गणावच्छेदकस्य समीपं - मागच्छेत् तदा तस्य गणावच्छेदकस्य न कल्पते अगृहीतभूम् - अस्वीकृतगृहस्थवेषं तम् अनस्थाप्यं 'भिक्षुमुपस्थापयितुं पुनः दीक्षां ' दातुं न कल्पते । स यदि ' गृहोभूतो भवेत् तदा किं कर्त्तव्यम् ' तत्राह-'अणत्रठप्पं' इत्यादि, 'अणवणं भिक्खु' अनवस्थाप्यम् अनवस्थाप्यनामर्कप्रायश्चित्तस्थापन्नँ भिक्षु 'गिहिभूयं गृही भूतं प्रतिपन्नगृहस्थवेषं ' कप्पड़' कल्पते 'गणावच्छेयगस्स' गणावच्छेदकस्य ‘'उवट्ठा वित्तए' उपस्थापयितुम् पुनः दीक्षां दातुमिति । प्रकृतसूत्रस्य ★
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy